This page has been fully proofread once and needs a second look.

<page>
<ignore>
३०६
 
</ignore>
<ignore>
शैव-उपनिषदः
 
</ignore>
<verse>
त्रिसुपर्णोपनिषदः पठनात्पङ्क्तिपावनः ।

बोधको ह्या सहस्राद्वै पङ्क्ति पावयते ध्रुवम् ॥
</verse>
<verse>
त्रिसुपर्णश्रुतिर्ह्येषा निष्कृतौ त्रिदले रता ।

श्रद्धत्स्व विद्वन्नाद्यं तदिति वेदानुशासनम् ॥
</verse>
<verse>
अखण्डानन्दसंबोधमयो यस्मादहं मुने ।

विन्यस्तामृतभागेन सुपर्णेनावकुण्ठय ॥
</verse>
<verse>
अमृतं मोक्षवाचन्तु तेनास्मदवकुण्ठनात् ।

प्राप्येते भोगमोक्षौ हि स्थित्यन्ते मदनुग्रहात् ॥
</verse>
<verse>
उत्तानभाग पर्णेन मूर्ध्नि मे न्युब्जमर्पयेत् ।

मोक्षेऽमृतावकुण्ठोऽहं भवेयं तव कामधुक् ॥
</verse>
<verse>
येन केन प्रकारेण बिल्वकेनापि मां यज ।

तीर्थदानतपोयोगस्वाध्याया नैव तत्समाः ॥
</verse>
<verse>
बिल्वं विधानतः स्थाप्य वर्धयित्वा च तद्दलैः ।

यः पूजयति मां भक्त्या सोऽहमेव न संशयः ॥
 
</verse>
<p>
य एतदधीते ब्रह्माऽब्रह्मा भवति । स्वर्णस्तेय्यस्तेयी भवति ।

सुरापाय्यपायी भवति । गुरुवधूगाम्यगामी भवति । महापातकोपपातकेभ्यः

पूतो भवति । न च पुनरावर्तते । न च पुनरावर्तते । न च पुनरावर्तते ।

ॐ सत्यम् ॥
 
</p>
<trailer>
इति बिल्वोपनिषत् समाप्ता
 
</trailer>
</page>