2026-02-16 22:08:09 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३०६
</ignore>
<ignore>शैव-उपनिषदः
</ignore>
<verse>त्रिसुपर्णोपनिषदः पठनात्पङ्क्तिपावनः ।
बोधको ह्या सहस्राद्वै पङ्क्ति पावयते ध्रुवम् ॥
</verse>
<verse>त्रिसुपर्णश्रुतिर्ह्येषा निष्कृतौ त्रिदले रता ।
श्रद्धत्स्व विद्वन्नाद्यं तदिति वेदानुशासनम् ॥
</verse>
<verse>अखण्डानन्दसंबोधमयो यस्मादहं मुने ।
विन्यस्तामृतभागेन सुपर्णेनावकुण्ठय ॥
</verse>
<verse>अमृतं मोक्षवाचन्तु तेनास्मदवकुण्ठनात् ।
प्राप्येते भोगमोक्षौ हि स्थित्यन्ते मदनुग्रहात् ॥
</verse>
<verse>उत्तानभाग पर्णेन मूर्ध्नि मे न्युब्जमर्पयेत् ।
मोक्षेऽमृतावकुण्ठोऽहं भवेयं तव कामधुक् ॥
</verse>
<verse>येन केन प्रकारेण बिल्वकेनापि मां यज ।
तीर्थदानतपोयोगस्वाध्याया नैव तत्समाः ॥
</verse>
<verse>बिल्वं विधानतः स्थाप्य वर्धयित्वा च तद्दलैः ।
यः पूजयति मां भक्त्या सोऽहमेव न संशयः ॥
</verse>
<p>य एतदधीते ब्रह्माऽब्रह्मा भवति । स्वर्णस्तेय्यस्तेयी भवति ।
सुरापाय्यपायी भवति । गुरुवधूगाम्यगामी भवति । महापातकोपपातकेभ्यः
पूतो भवति । न च पुनरावर्तते । न च पुनरावर्तते । न च पुनरावर्तते ।
ॐ सत्यम् ॥
</p>
<trailer>इति बिल्वोपनिषत् समाप्ता
</trailer>
</page>
<ignore>३०६
<ignore>शैव-उपनिषदः
<verse>त्रिसुपर्णोपनिषदः पठनात्पङ्क्तिपावनः ।
बोधको ह्या सहस्राद्वै पङ्क्ति पावयते ध्रुवम् ॥
<verse>त्रिसुपर्णश्रुतिर्ह्येषा निष्कृतौ त्रिदले रता ।
श्रद्धत्स्व विद्वन्नाद्यं तदिति वेदानुशासनम् ॥
<verse>अखण्डानन्दसंबोधमयो यस्मादहं मुने ।
विन्यस्तामृतभागेन सुपर्णेनावकुण्ठय ॥
<verse>अमृतं मोक्षवाचन्तु तेनास्मदवकुण्ठनात् ।
प्राप्येते भोगमोक्षौ हि स्थित्यन्ते मदनुग्रहात् ॥
<verse>उत्तानभाग