2026-02-10 02:56:59 by ambuda-bot
This page has not been fully proofread.
३०६
शैव-उपनिषदः
त्रिसुपर्णोपनिषदः पठनात्पङ्क्तिपावनः ।
बोधको ह्या सहस्राद्वै पङ्क्ति पावयते ध्रुवम् ॥
त्रिसुपर्णश्रुतिर्ह्येषा निष्कृतौ त्रिदले रता ।
श्रद्धत्स्व विद्वन्नाद्यं तदिति वेदानुशासनम् ॥
अखण्डानन्दसंबोधमयो यस्मादहं मुने ।
विन्यस्तामृतभागेन सुपर्णेनावकुण्ठय ॥
अमृतं मोक्षवाचन्तु तेनास्मदवकुण्ठनात् ।
प्राप्येते भोगमोक्षौ हि स्थित्यन्ते मदनुग्रहात् ॥
उत्तानभाग पर्णेन मूर्ध्नि मे न्युब्जमर्पयेत् ।
मोक्षेऽमृतावकुण्ठोऽहं भवेयं तव कामधुक् ॥
येन केन प्रकारेण बिल्वकेनापि मां यज ।
तीर्थदानतपोयोगस्वाध्याया नैव तत्समाः ॥
बिल्वं विधानतः स्थाप्य वर्धयित्वा च तद्दलैः ।
यः पूजयति मां भक्त्या सोऽहमेव न संशयः ॥
य एतदधीते ब्रह्माऽब्रह्मा भवति । स्वर्णस्तेय्यस्तेयी भवति ।
सुरापाय्यपायी भवति । गुरुवधूगाम्यगामी भवति । महापातकोपपातकेभ्यः
पूतो भवति । न च पुनरावर्तते । न च पुनरावर्तते । न च पुनरावर्तते ।
ॐ सत्यम् ॥
इति बिल्वोपनिषत् समाप्ता