This page has been fully proofread once and needs a second look.

<page>
<ignore>
U 39
 
</ignore>
<ignore>
बिल्वोपनिषत्
 
</ignore>
<verse>
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ।

सबिल्वरूपं सगुणात्मरूपं त्रिमूर्तिरूपं शिवरूपमस्मि ॥
</verse>
<verse>
पृष्ठभागेऽमृतं न्यस्तं देवैर्ब्रह्मादिभिः पुरा ।
 

उत्तान बिल्वपत्रेण पूजयेत् सर्वसिद्धये ॥
</verse>
<verse>
तस्मात् सर्वप्रयत्नेन बिल्वपत्रैः सदा
र्चय ।
बिल्वपत्रं विना वस्तु नास्ति किंचित्तवानघ ॥
</verse>
<verse>
तस्मात् सर्वप्रयत्नेन बिल्वपत्रैः सदार्चय ।

उत्तानपत्रपूजां च यः कुर्यान्मम मस्तके ॥
</verse>
<verse>
इह लोकेऽखिलं सौख्यं प्राप्नोत्यन्ते पुरे मम ।

तिष्ठत्येव महावीरः पुनर्जन्म विवर्जितः ॥
</verse>
<verse>
सोदकैर्बिल्वपत्रैश्च यः कुर्यान्मम पूजनम् ।

मम सान्निध्यमाप्नोति प्रमथैः सह मोदते ॥
</verse>
<verse>
सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।

बिल्वपूजनतो लोके मत्पूजायाः परा न हि ॥
</verse>
<verse>
त्रिसुपर्णं त्रिऋचां रूपं त्रिसुपर्ण त्रयीमयम् ।

त्रिगुणं निजगन्मूर्तित्रयं शक्तित्रयं त्रिदृक् ॥
</verse>
<verse>
कालत्रयं च सवनत्रयं लिङ्गत्रयं त्रिपात् ।

तेजस्त्रयमकारोकारमकारप्रणवात्मकम् ॥
</verse>
<verse>
देवेषु ब्राह्मणोऽहं हि त्रिसुपर्णमयाचितम् ।

मह्यं वै ब्राह्मणायेदं मया विज्ञप्तकामिकम् ॥
</verse>
<verse>
दद्याद्ब्रह्मभ्रूणवीरहत्यायाश्चान्यपातकैः

मुक्तोऽखण्डानन्दबोधो ब्रह्मभूयाय कल्पते ॥
 
</verse>
<ignore>
३०५
 
</ignore>
</page>