2026-02-10 02:56:59 by ambuda-bot
This page has not been fully proofread.
U 39
बिल्वोपनिषत्
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ।
सबिल्वरूपं सगुणात्मरूपं त्रिमूर्तिरूपं शिवरूपमस्मि ॥
पृष्ठभागेऽमृतं न्यस्तं देवैर्ब्रह्मादिभिः पुरा ।
उत्तान बिल्वपत्रेण पूजयेत् सर्वसिद्धये ॥
तस्मात् सर्वप्रयत्नेन बिल्वपत्रैः सदा ।
बिल्वपत्रं विना वस्तु नास्ति किंचित्तवानघ ॥
तस्मात् सर्वप्रयत्नेन बिल्वपत्रैः सदाचय ।
उत्तानपत्रपूजां च यः कुर्यान्मम मस्तके ॥
इह लोकेऽखिलं सौख्यं प्राप्नोत्यन्ते पुरे मम ।
तिष्ठत्येव महावीरः पुनर्जन्म विवर्जितः ॥
सोदकैर्बिल्वपत्रैश्च यः कुर्यान्मम पूजनम् ।
मम सान्निध्यमाप्नोति प्रमथैः सह मोदते ॥
सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।
बिल्वपूजनतो लोके मत्पूजायाः परा न हि ॥
त्रिसुपर्ण त्रिऋचां रूपं त्रिसुपर्ण त्रयीमयम् ।
त्रिगुणं निजगन्मूर्तित्रयं शक्तित्रयं त्रिदृक् ॥
कालत्रयं च सवनत्रयं लिङ्गत्रयं त्रिपात् ।
तेजस्त्रयमकारोकारमकारप्रणवात्मकम् ॥
देवेषु ब्राह्मणोऽहं हि त्रिसुपर्णमयाचितम् ।
मह्यं वै ब्राह्मणायेदं मया विज्ञप्तकामिकम् ॥
दद्याद्ब्रह्मभ्रूणवीरहत्यायाश्चान्यपातकैः
मुक्तोऽखण्डानन्दबोधो ब्रह्मभूयाय कल्पते ॥
३०५