This page has been fully proofread once and needs a second look.

<page>
<ignore>
३०४
 
</ignore>
<ignore>
शैव-उपनिषदः
 
</ignore>
<verse>
भगवन् सर्वलोकेश सत्यज्ञानादिलक्षण ।

कथं पूजा प्रकर्तव्या तां वदस्व दयानिधे ॥
</verse>
<p>
इति पुनः पृच्छन्तं वामदेवमालिङ्गयेति होवाच ॥
 
</p>
<verse>
बुद्विमांस्त्वमिति ज्ञात्वा वक्ष्यामि मुनिसत्तम ।

मम प्रियेण बिल्वेन त्वं कुरुष्व मदर्चनम् ॥
</verse>
<verse>
द्रव्याणामुत्तमैर्लोके मम पूजाविधौ तव ।

पत्रपुष्पाक्षतैर्दिव्यैर्बिल्वपत्रैः समर्चय ॥
</verse>
<verse>
बिल्वपत्रं विना पूजा व्यर्था भवति सर्वदा ।

मम रूपमिति ज्ञेयं सर्वरूपं तदेव हि ॥
 
</verse>
<verse>
प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च

भूतिरुद्राक्षभरण उदीचीं दिशमाश्रयेत् ॥
</verse>
<verse>
सद्योजातादिभिर्मन्त्रैर्नमस्कृत्य पुनः पुनः ।

प्रदक्षिणत्रयं कृत्वा शिवरूपमिति स्फुटम् ।
</verse>
<verse>
देवीं ध्यायेत्तथा वृक्षे विष्णुरूपं च सर्वदा ।

ब्रह्मरूपं च विज्ञेयं सर्वरूपं विभावयेत् ॥
</verse>
<verse>
वामदक्षिणमध्यस्थं ब्रह्मविष्णुशिवात्मकम् ।

इन्द्रादयश्च यक्षान्ता वृन्तभागे व्यवस्थिताः ॥
</verse>
<verse>
पृष्ठभागेऽमृतं यस्मादर्चयेन्मम तुष्टये ।

उत्तानबिल्वपत्रं च यः कुर्यान्मम मस्तके ॥
</verse>
<verse>
मम सायुज्यमाप्नोति नात्र कार्या विचारणा ।

त्रिमूर्तिस्त्रिगुणं बैल्वमभिग्निरूपं तथैव च ।

ब्रह्मरूपं कलारूपं वेदरूपं महामुने ॥
 
</verse>
</page>