2026-02-16 22:03:03 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३०४
</ignore>
<ignore>शैव-उपनिषदः
</ignore>
<verse>भगवन् सर्वलोकेश सत्यज्ञानादिलक्षण ।
कथं पूजा प्रकर्तव्या तां वदस्व दयानिधे ॥
</verse>
<p>इति पुनः पृच्छन्तं वामदेवमालिङ्गयेति होवाच ॥
</p>
<verse>बुद्विमांस्त्वमिति ज्ञात्वा वक्ष्यामि मुनिसत्तम ।
मम प्रियेण बिल्वेन त्वं कुरुष्व मदर्चनम् ॥
</verse>
<verse>द्रव्याणामुत्तमैर्लोके मम पूजाविधौ तव ।
पत्रपुष्पाक्षतैर्दिव्यैर्बिल्वपत्रैः समर्चय ॥
</verse>
<verse>बिल्वपत्रं विना पूजा व्यर्था भवति सर्वदा ।
मम रूपमिति ज्ञेयं सर्वरूपं तदेव हि ॥
</verse>
<verse>प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च
भूतिरुद्राक्षभरण उदीचीं दिशमाश्रयेत् ॥
</verse>
<verse>सद्योजातादिभिर्मन्त्रैर्नमस्कृत्य पुनः पुनः ।
प्रदक्षिणत्रयं कृत्वा शिवरूपमिति स्फुटम् ।
</verse>
<verse>देवीं ध्याययेत्तथा वृक्षे विष्णुरूपं च सर्वदा ।
ब्रह्मरूपं च विज्ञेयं सर्वरूपं विभावयेत् ॥
</verse>
<verse>वामदक्षिणमध्यस्थं ब्रह्मविष्णुशिवात्मकम् ।
इन्द्रादयश्च यक्षान्ता वृन्तभागे व्यवस्थिताः ॥
</verse>
<verse>पृष्ठभागेऽमृतं यस्मादर्चयेन्मम तुष्टये ।
उत्तानबिल्वपत्रं च यः कुर्यान्मम मस्तके ॥
</verse>
<verse>मम सायुज्यमाप्नोति नात्र कार्या विचारणा ।
त्रिमूर्तिस्त्रिगुणं बैल्वमभिग्निरूपं तथैव च ।
ब्रह्मरूपं कलारूपं वेदरूपं महामुने ॥
</verse>
</page>
<ignore>३०४
<ignore>शैव-उपनिषदः
<verse>भगवन् सर्वलोकेश सत्यज्ञानादिलक्षण ।
कथं पूजा प्रकर्तव्या तां वदस्व दयानिधे ॥
<p>इति पुनः पृच्छन्तं वामदेवमालिङ्गयेति होवाच ॥
<verse>बुद्विमांस्त्वमिति ज्ञात्वा वक्ष्यामि मुनिसत्तम ।
मम प्रियेण बिल्वेन त्वं कुरुष्व मदर्चनम् ॥
<verse>द्रव्याणामुत्तमैर्लोके मम पूजाविधौ तव ।
पत्रपुष्पाक्षतैर्दिव्यैर्बिल्वपत्रैः समर्चय ॥
<verse>बिल्वपत्रं विना पूजा व्यर्था भवति सर्वदा ।
मम रूपमिति ज्ञेयं सर्वरूपं तदेव हि ॥
<verse>प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च
भूतिरुद्राक्षभरण उदीचीं दिशमाश्रयेत् ॥
<verse>सद्योजातादिभिर्मन्त्रैर्नमस्कृत्य पुनः पुनः ।
प्रदक्षिणत्रयं कृत्वा शिवरूपमिति स्फुटम् ।
<verse>देवीं ध्या
ब्रह्मरूपं च विज्ञेयं सर्वरूपं विभावयेत् ॥
<verse>वामदक्षिणमध्यस्थं ब्रह्मविष्णुशिवात्मकम् ।
इन्द्रादयश्च यक्षान्ता वृन्तभागे व्यवस्थिताः ॥
<verse>पृष्ठभागेऽमृतं यस्मादर्चयेन्मम तुष्टये ।
उत्तानबिल्वपत्रं च यः कुर्यान्मम मस्तके ॥
<verse>मम सायुज्यमाप्नोति नात्र कार्या विचारणा ।
त्रिमूर्तिस्त्रिगुणं बैल्वम
ब्रह्मरूपं कलारूपं वेदरूपं महामुने ॥
</page>