2026-02-10 02:56:59 by ambuda-bot
This page has not been fully proofread.
३०४
शैव-उपनिषदः
भगवन् सर्वलोकेश सत्यज्ञानादिलक्षण ।
कथं पूजा प्रकर्तव्या तां वदस्व दयानिधे ॥
इति पुनः पृच्छन्तं वामदेवमालिङ्गयेति होवाच ॥
बुद्विमांस्त्वमिति ज्ञात्वा वक्ष्यामि मुनिसत्तम ।
मम प्रियेण बिल्वेन त्वं कुरुष्व मदनम् ॥
द्रव्याणामुत्तमैर्लोके मम पूजाविधौ तव ।
पत्रपुष्पाक्षतैर्दिव्यैर्बिल्वपत्रैः समर्चय ॥
बिल्वपत्रं विना पूजा व्यर्था भवति सर्वदा ।
मम रूपमिति ज्ञेयं सर्वरूपं तदेव हि ॥
प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च
भूतिरुद्राक्षभरण उदीचीं दिशमाश्रयेत् ॥
सद्योजातादिभिर्मन्त्रैर्नमस्कृत्य पुनः पुनः ।
प्रदक्षिणत्रयं कृत्वा शिवरूपमिति स्फुटम् ।
देवीं ध्यायत्तथा वृक्षे विष्णुरूपं च सर्वदा ।
ब्रह्मरूपं च विज्ञेयं सर्वरूपं विभावयेत् ॥
वामदक्षिणमध्यस्थं ब्रह्मविष्णुशिवात्मकम् ।
इन्द्रादयश्च यक्षान्ता वृन्तभागे व्यवस्थिताः ॥
पृष्ठभागेऽमृतं यस्मादर्चयेन्मम तुष्टये ।
उत्तानबिल्वपत्रं च यः कुर्यान्मम मस्तके ॥
मम सायुज्यमाप्नोति नात्र कार्या विचारणा ।
त्रिमूर्तिस्त्रिगुणं बैल्वमभिरूपं तथैव च ।
ब्रह्मरूपं कलारूपं वेदरूपं महामुने ॥