This page has been fully proofread once and needs a second look.

<page>
<ignore>
बिल्वोपनिषत्
 
</ignore>
<ignore>
३०३
 
</ignore>
<p>
भवेत् । तदिदंपारायणवशादानन्दपूर्णो भवेत् । ओघत्रयनामविशिष्टमाकृति-

विशिष्टं नवनाथनामविशिष्टं वा नाममयीमाज्ञां दद्यात् । घटिकापारायणं

चरेत् । दिनाक्षरयुगाक्षरे तद्दिननित्याहंसस्तदनु मातृकां जपेत् । कालनित्यां

जपेत् । द्विशतसाहस्रशीर्षेषM तरसाग्निजापी भवेत् । मन्त्रपारायणी भवेत् ।

नामपारायणी भवेत् । चक्रपारायणी भवेत् । स सर्वेवM पश्यति । स सबैsarvaM जलमयो

भवेत् । वह्नौ वह्निमयो भवेत् । चराचरगतिर्भवेत् । पराशतषष्टिवाणीज्ञो

भवेत् । षोढान्यासाधिकारी भवेत् । मासतः पक्षतो वारतः पारायणी

भवेत् । सर्वाधिकारी भवेत् । दृष्टाकं चरेत् । तदाचरणी अमृतत्वं गच्छति ।

ब्रह्मत्वं गच्छति । साक्षात्सप्तमीरूपो भवेदिति प्रोतं वेद ॥
 
</p>
<trailer text="END">
इत्याथर्वणीये सौभाग्यकाण्डे पारायणोपनिषत् समाप्ता
 
</trailer>
<title text="START">
बिल्वोपनिषत्
 
</title>
<p>
अथ वामदेवः परमेश्वरं सृष्टिस्थितिलयकारणमुमासहितं स्वशिरसा

प्रणम्येति होवाच । अधीहि भगवन् सर्वविद्यां सर्वरहस्यवरिष्ठां सदा सद्भिः

पूज्यमानां निगूढाम् । कया च पूजया सर्वपापं व्यपोह्य परात्परं शिव-

सायुज्यमाप्नोति ? केनैकेन वस्तुना मुक्तो भवति ? तं होवाच भगवान्

सदाशिवः ।
 
</p>
<verse>
न वक्तव्यं न वक्तव्यं न वक्तव्यं कदाचन ।

मत्स्वरूपस्त्वयं ज्ञेयो बिल्ववृक्षो विधानतः ।

एकेन बिल्वपत्रेण संतुष्टोऽस्मि महामुने ॥
 
</verse>
<p>
इति ब्रुवन्तं परमेश्वरं पुनः प्रणम्येति होवाच ॥
 
</p>
</page>