2026-02-10 02:56:59 by ambuda-bot
This page has not been fully proofread.
बिल्वोपनिषत्
३०३
भवेत् । तदिदंपारायणवशादानन्दपूर्णो भवेत् । ओघत्रयनामविशिष्टमाकृति-
विशिष्टं नवनाथनामविशिष्टं वा नाममयीमाज्ञां दद्यात् । घटिकापारायणं
चरेत् । दिनाक्षरयुगाक्षरे तद्दिननित्याहंसस्तदनु मातृकां जपेत् । कालनित्यां
जपेत् । द्विशतसाहस्रशीर्षे तरसाग्निजापी भवेत् । मन्त्रपारायणी भवेत् ।
नामपारायणी भवेत् । चक्रपारायणी भवेत् । स सर्वे पश्यति । स सबै जलमयो
भवेत् । वह्नौ वह्निमयो भवेत् । चराचरगतिर्भवेत् । पराशतषष्टिवाणीज्ञो
भवेत् । षोढान्यासाधिकारी भवेत् । मासतः पक्षतो वारतः पारायणी
भवेत् । सर्वाधिकारी भवेत् । दृष्टाकं चरेत् । तदाचरणी अमृतत्वं गच्छति ।
ब्रह्मत्वं गच्छति । साक्षात्सप्तमीरूपो भवेदिति प्रोतं वेद ॥
इत्याथर्वणीये सौभाग्यकाण्डे पारायणोपनिषत् समाप्ता
बिल्वोपनिषत्
अथ वामदेवः परमेश्वरं सृष्टिस्थितिलयकारणमुमासहितं स्वशिरसा
प्रणम्येति होवाच । अधीहि भगवन् सर्वविद्यां सर्वरहस्यवरिष्ठां सदा सद्भिः
पूज्यमानां निगूढाम् । कया च पूजया सर्वपापं व्यपोह परात्परं शिव-
सायुज्यमाप्नोति ? केनैकेन वस्तुना मुक्तो भवति ? तं होवाच भगवान्
सदाशिवः ।
न वक्तव्यं न वक्तव्यं न वक्तव्यं कदाचन ।
मत्स्वरूपस्त्वयं ज्ञेयो बिल्ववृक्षो विधानतः ।
एकेन बिल्वपत्रेण संतुष्टोऽस्मि महामुने ॥
इति ब्रुवन्तं परमेश्वरं पुनः प्रणम्येति होवाच ॥