This page has been fully proofread once and needs a second look.

<page>
<ignore>३०२</ignore>
<ignore>शैव-उपनिषदः</ignore>
<p>येन कर्मणेदं जगद्विभजामहे कर्मभूमिभोगभूमिरूपेण विभक्तं कुर्महे ।
कुमाराय कालानभिभूताय । शत्रवे संहर्त्रे । सभाप्रपादिने सभां प्रपद्यते
तच्छील: सभाप्रपादी तस्मै सभ्यायेत्यर्थः । अश्वतरौ ईषदूनमश्वत्वं ययोस्तौ
अश्वतरौ । गर्दभादश्वायां जातौ । द्विसरौ अभितः सरत इत्यभितः सरौ
गर्दभौ वर्तेते तस्मै । द्विरुक्तिः समाप्त्यर्था ।</p>
<verse>नारायणेन रचिता श्रुतिमात्रोपजीविता ।
अस्पष्टपदवाक्यानां नीलरुद्रस्य दीपिका ॥ ३ ॥</verse>
<trailer>इति तृतीयः खण्डः</trailer>
<trailer>इति नारायणकृतदीपिकाख्यव्याख्योपेता नीलरुद्रोपनिषत् समाप्ता</trailer>
<title text="START">पारायणापानणोपनिषत्</title>
<p merge-next="true">अथाह वै वेदानां वेदत्वमेतेन शाक्ते शक्तित्वमेति न वेदमातुर्वेद-
मातृत्वमेतेन तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ।
परोरजसे सावदोम् । महाकालाय विद्महे श्मशानवासिने धीमहि । तन्नो
रुद्रः प्रचोदयात् । रुद्र एवाग्निरिति । अथ प्रकाशः ॐ भूर्भुवः स्वः ॐ
ऐं क्लीं सौः । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः
प्रचोदयात् । परोरजसे सावदोम् । सौः क्लीं ऐं ह्रौं क्रीं क्रीं क्रीं ह्रूं ह्रूं
ह्रीं ह्रीं दक्षिणकालिके क्रीं क्रीं क्रीं ह्रूं ह्रूं ह्रीं ह्रीं स्वाहा । ह्रां ऐं
क्लीं श्रीं ॐ ॐ ॐ श्रीं क्लीं ऐं । महाकालाय विद्महे श्मशानवासिने
धीमहि । तन्नो रुद्रः प्रचोदयात् । रुद्र एवाग्निरिति संघट्टनाधीशो</p>
</page>