This page has not been fully proofread.

३०२
 
शैव-उपनिषदः
 
येन कर्मणेदं जगद्विभजामहे कर्मभूमिभोगभूमिरूपेण विभक्तं कुर्महे ।
कुमाराय कालानभिभूताय । शत्रवे संहर्त्रे । सभाप्रपादिने सभां प्रपद्यते
तच्छील: सभाप्रपादी तस्मै सभ्यायेत्यर्थः । अश्वतरौ ईषदूनमश्वत्वं ययोस्तौ
अश्वतरौ । गर्दभादश्वायां जातौ । द्विसरौ अभितः सरत इत्यभितः सरौ
गर्दभौ वर्ते तस्मै । द्विरुक्तिः समाप्त्यर्था ।
 
नारायणेन रचिता श्रुतिमात्रोपजीविता ।
 
अस्पष्टपदवाक्यानां नीलरुद्रस्य दीपिका ॥ ३ ॥
 
इति तृतीयः खण्डः
 
इति नारायणकृतदीपिकाख्यव्याख्योपेता नीलोपनिषत् समाप्ता
 
पारायणापानषत्
 
अथाह वै वेदानां वेदत्वमेतेन शाक्ते शक्तित्वमेति न वेदमातुर्वेद-
मातृत्वमेतेन तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ।
परोरजसे सावदोम् । महाकालाय विद्महे श्मशानवासिने धीमहि । तन्नो
रुद्रः प्रचोदयात् । रुद्र एवाभिरिति । अथ प्रकाशः ॐ भूर्भुवः स्वः ॐ
ऐं क्लीं सौः । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः
प्रचोदयात् । परोरजसे साबदोम् । सौः क्लीं ऐं ह्रीं क्रीं क्रीं क्रीं हूं हूं
ह्रीं ह्रीं दक्षिणकालिके क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं स्वाहा । हां
क्लीं श्रीं ॐ ॐ ॐ श्रीं क्लीं ऐं । महाकालाय विद्महे श्मशानवासिने
धीमहि । तन्नो रुद्रः प्रचोदयात् । रुद्र एवाभिरिति संघट्टनाधीशो
 
1