2026-02-27 02:17:36 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>नीलरुद्रोपनिषत्
</ignore>
<metadata>div.n = 3</metadata>
<heading>तृतीयः खण्डः
</heading>
<verse>यः स्वजनान्नीलग्रीवो यः स्वजनान्हरिः ।
कल्माषपुच्छमोषधे जम्भयोताश्वरुन्धति ॥
</verse>
<verse>बभ्रुश्च बभ्रुकर्णश्च नीलग्रीवश्च यः शिवः ।
शर्वेण नीलकण्ठेन भवेन मरुतां पिता ॥
</verse>
<verse>विरूपाक्षेण बभ्रुणा वाचं वदिष्यतो हतः ।
शर्व नीलशिखण्ड वीर कर्मणि कर्मणि ॥
।
</verse>
<ignore>३०१
</ignore>
<p>इमामस्य प्राशं जहि येनेदं विभजामहे । नमो भवाय ।
नमश्शर्वाय । नमः कुमाराय शत्रवे । नमः सभाप्रपादिने । यस्याश्वतरौ
द्विसरौ गर्दभावभितस्सरौ । तस्मै नीलशिखण्डाय नमः । नीलशिखण्डाय
नमः ॥ ३ ॥
।
</p>
<p text="C" merge-next="true">केदाराधीशं महिषरूपं स्तौति - --य इति । यः शिवः स्वजनान् भक्तान्
प्रति नीलग्रीवः । यश्च स्वजनान्भक्तान् प्रति हरिहरितवर्णो भक्तवात्सल्येन
भवति । महिषस्य हि तादृग्रूपं संभवति । ओषधे अरुन्धति रोधरहिते ।
तं कल्माषपुच्छं कृष्णपाण्डुरपुच्छम् । आशु शीघ्रम् । जम्भय वीर्यवन्तं
कुरु । ओषधीनां पशुभ्यो बलप्रदत्वात् ।" <quote>"कल्माषो राक्षसे कृष्णे कल्माष:
षः
कृष्णपाण्डुरे ""</quote> इति विश्वः । केदारेश्वरस्य महिषरूपत्वात्पुच्छवत्ता संभवति ।
बभ्रुः क्वचिदवयवे पिङ्गळवर्णः । बभ्रुकर्णः अन्तः पिङ्गलवर्णकर्णः । पितेति
तृतीयार्थे प्रथमा । पिवेत्रेत्यर्थः । अथ वाचं वदिष्यतः पिता देहिमात्रस्य
जनक: ब्रह्म येनेश्वरेण हतस्तं त्वं पश्येत्यन्वयः । हे वीर कर्मणि कर्मणि
विहितनिषिद्धरूपे इमामस्य जनस्याशां पृच्छतीति प्राट् । तां प्राशं
पृच्छिकां वाचं जहि । वेदविहितनिषिद्धकर्मविषयं संशयं निराकुर्वित्यर्थः ।
</p>
</page>
<ignore>नीलरुद्रोपनिषत्
<metadata>div.n = 3</metadata>
<heading>तृतीयः खण्डः
<verse>यः स्वजनान्नीलग्रीवो यः स्वजनान्हरिः ।
कल्माषपुच्छमोषधे जम्भयोताश्वरुन्धति ॥
<verse>बभ्रुश्च बभ्रुकर्णश्च नीलग्रीवश्च यः शिवः ।
शर्वेण नीलकण्ठेन भवेन मरुतां पिता ॥
<verse>विरूपाक्षेण बभ्रुणा वाचं वदिष्यतो हतः ।
शर्व नीलशिखण्ड वीर कर्मणि कर्मणि ॥
।
<ignore>३०१
<p>इमामस्य प्राशं जहि येनेदं विभजामहे । नमो भवाय ।
नमश्शर्वाय । नमः कुमाराय शत्रवे । नमः सभाप्रपादिने । यस्याश्वतरौ
द्विसरौ गर्दभावभितस्सरौ । तस्मै नीलशिखण्डाय नमः । नीलशिखण्डाय
नमः ॥ ३ ॥
।
<p text="C" merge-next="true">केदाराधीशं महिषरूपं स्तौति
प्रति नीलग्रीवः । यश्च स्वजनान्भक्तान् प्रति हरिहरितवर्णो भक्तवात्सल्येन
भवति । महिषस्य हि तादृग्रूपं संभवति । ओषधे अरुन्धति रोधरहिते ।
तं कल्माषपुच्छं कृष्णपाण्डुरपुच्छम् । आशु शीघ्रम् । जम्भय वीर्यवन्तं
कुरु । ओषधीनां पशुभ्यो बलप्रदत्वात् ।
कृष्णपाण्डुरे
बभ्रुः क्वचिदवयवे पिङ्गळवर्णः । बभ्रुकर्णः अन्तः
तृतीयार्थे प्रथमा । पि