2026-02-27 02:19:28 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३००</ignore>
<ignore>शैव-उपनिषदः</ignore>
<p text="C">वन्तमादित्यवत्प्रकाशमानं पामरा अपि ददृशुरित्यर्थः । वाजिनेऽन्नवते बाण-
रूपाय वा । सीदन्तीति सत्वानो गणाः । नमांसि नमस्काराः । न आत-
ताय अनातताय । धृष्णवे प्रगल्भाय । बाहुभ्यां कृत्वा धन्वने नमोऽकरव-
मित्यर्थः । उभयोररिप्रत्यरिभूतयो राज्ञोर्धन्वनो ज्यां प्रमुञ्च अनाततं कुरु ।
राज्ञोर्विग्रहे लोकानां क्लेशो भवति । ततस्तं शमयेति भावः । हे भगवः ।
यास्ते हस्त इषवो बाणास्ताः परावप पराङ्मुखान् मुंच । त्वमपि कोपं
लोकेषु मा कृथा इति भावः । इन्द्ररूपेण जगद्रक्षेति प्रार्थयते---अव-
तत्येति । स्वधिज्यं कृत्वा । सहस्राक्ष शक्ररूप । शतमिषुधयस्तूणा यज्ञरूपाः
यस्य तत्संबोधने । निशीर्य तीक्ष्णीकृत्य । मुखा मुखानि । नोऽस्मान् ।
शिवः कल्याणरूपः । शम्भुः सुखहेतुः सन्नाभर धारय पोषय वा ।
बाणवान् तूणीरः विशल्योऽस्तु भल्लरहितो भवतु । वैरिषु हतेषु तत्प्रयोजना-
भावात् । अनेशन् अदृश्या अभूवन् । <quote>"नशिगम्योरलघित्वम्"</quote> इति वार्ति-
केन लुङि घङि एत्वम् । निषङ्गथिः निषङ्गे । विश्वतः सर्वतः । अस्मान्
परिवृणक्तु परिवृणातु । अरे सम्बोधने । अथो पश्चाद्रक्षणानन्तरं यस्तव
इषुधिरस्मिन्निषुधौ तं बाणं निधेहि स्थापय । हे मीढुष्टम ईडितत-
मेत्यर्थः । सेचकतम अयक्ष्मया सज्जया तया हेत्या परिब्भुज परिपालय ।
सदस्कृतं गृहं कृतं यातुधानानां रक्षसां वनस्पतीनां चेषवः सर्पाः । तैर्हि ते
जनान् दशन्ति । अवटेषु गर्तेषु ॥ २ ॥</p>
<trailer>इति द्वितीयः खण्डः</trailer>
</page>