This page has been fully proofread once and needs a second look.

<page>
<ignore>
नीलरुद्रोपनिषत्
 
</ignore>
<verse>
उत त्वा विश्वा भूतानि तस्मै दृष्टाय ते नमः ।

नमो अस्तु नीलशिखण्डाय सहस्राक्षाय वाजिने ॥
</verse>
<verse>
अथो ये अस्य सत्वानस्तेभ्योऽहमकरं नमः ।

नमांसि त आयुधायानातताय धृष्णवे ॥
</verse>
<verse>
उभाभ्यामकरं नमो बाहुभ्यां तव धन्वने ।

प्रमुञ्च धन्वनस्त्वमुभयोरार्त्नियोर्ज्याम् ॥
या
</verse>
<verse>या<error> </error>
श्च ते हस्त इषवः परा ता भगवो वप ।

अवतत्य धनुस्त्व सहस्राक्ष शतेषुवे ॥
 

 
</verse>
<verse>
निशीर्य शल्यानां मुखा शिवो नः शंभुराभर ।

विज्यं धनुः शिखण्डिनो विशल्यो बाणवा उत ॥
</verse>
<verse>
अनेशन्नस्येषव आभुरस्य निषङ्गथिः ।

परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः ॥
</verse>
<verse>
अथो य इषुधिस्तवारे अस्मिन्निधेहि तम् ।

या ते हेतिमदुर्मीढुष्टम हस्ते बभूव ते धनुः ॥
</verse>
<verse>
तया त्वं विश्वतो अस्मानयक्ष्मया परिब्भुज ।

नमो अस्तु सर्पेभ्यो ये के च पृथिवीमनु ॥
</verse>
<verse>
ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ।

ये वाभिरोचने दिवि ये च सूर्यस्य रश्मिषु ॥
</verse>
<p>
येषामप्सु सदस्कृतं तेभ्यः सर्पेभ्यो नमः ।
</p>
<verse>
या इषवो यातुधानानां ये वा वनस्पतीनाम् ।
 

ये वाऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥ २ ॥
 
२९९
 
</verse>
<p text="C" merge-next="true">
गोपा गोपाला अदृशन् अपश्यन् । उदहार्यः पानीयहारिण्यः ।

विश्वा विश्वानि भूतानि अदृशन् । योगिनामप्यदृश्यं त्वां कृपया आविर्भ -
 
</p>
</page>