2026-02-27 02:19:14 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२९८</ignore>
<ignore>शैव-उपनिषदः</ignore>
<p text="C">एतु आगच्छतु । योगक्षेमकरोऽभिषेकजले संनिहितो भवत्वित्यर्थः । मन्त्र-
लिङ्गादभिषेके विनियोगः । भामः क्रोधः । मन्युः तत्पूर्वावस्था । उतो उत ।
इषवे बाणरूपाय । अस्तवे <quote>"असु क्षेपणे"</quote> इति धातोः तवेन्प्रत्ययस्तुमर्थे,
अस्तुं क्षेप्तुमित्यर्थः । कं क्षेप्तुं गिरिशन्तं श्यतीति श्यन् गिरेः श्यन्
संबन्धसामान्ये षष्ठ्या समासः, तं गिरिशन्तं, छान्दसो यलोपः । हे गिरित्र
गिरिरक्षक । तां शिवां कल्याणीं कुरु । अच्छा वदामसि । अच्छा
निर्मलम् । वदामसि वदाम । अच्छशब्दस्य <quote>"निपातस्य"</quote> इति दीर्घः ।
<quote>"इदन्तो मसि,"</quote> इदनर्थको निपातः । अयक्ष्मं नीरोगम् । सुमनाः
सुमनस्कमसत् भवेत् । लिङर्थे लेट् तिप् इतश्च लोपः । परस्मैपदेषु लेटः
प्रभवत्यट् । शरव्या शरसंधात्री ज्या । <quote>"शरो दध्यग्रबाणयोः"</quote> इति
विश्वः । शरमर्हति यत् । अव शरस्य चेत्यवादेशः । शरुवृत्ताद्वा सिद्धं
<quote>"शरुरायुधकोपयोः"</quote> । <quote>"उगवादिभ्यो यत्"</quote> । जीवसे जीवितुं मृड
मोदय । यद्वा हे मृड । तया तन्वा नः अस्मान् जीवसे जीवयसि । शन्तमया
अतिशयेन शं शंतमा तया अभिचाकशत्, कशेर्यङ् उदात्ताल्लेट् तिप् अट् ।
अतिशयेन प्रकाशयत्विति प्रार्थना । बभ्रुः पिङ्गलः अव एषां ह ईडे
स्तुतये ईमहे कामयामहे ॥ १ ॥</p>
<trailer>इति प्रथमः खण्डः</trailer>
<metadata>div.n = 2</metadata>
<heading>द्वितीयः खण्डः</heading>
<verse>अपश्यं त्वावरोहन्तं नीलग्रीवं विलोहितम् ।
उत त्वा गोपा अदृशन्नुत त्वोदहार्यः ॥</verse>
</page>