This page has been fully proofread once and needs a second look.

<page>
<ignore>
२९८
 
</ignore>
<ignore>
शैव-उपनिषदः
 
</ignore>
<p>
एतु आगच्छतु । योगक्षेमकरोऽभिषेकजले संनिहितो भवत्वित्यर्थः । मन्त्र-

लिङ्गादभिषेके विनियोगः । भामः क्रोधः । मन्युः तत्पूर्वावस्था । उतो उत ।

इषवे बाणरूपाय । अस्तवे " <quote>&quot;असु क्षेपणे "&quot;</quote> इति धातोः तवेन्प्रत्ययस्तुमर्थे,

अस्तुं क्षेप्तुमित्यर्थः । कं क्षेप्तुं गिरिशन्तं श्यतीति श्यन् गिरेः श्यन्

संबन्धसामान्ये षष्ठ्या समासः, तं गिरिशन्तं, छान्दसो यलोपः । हे गिरित्र

गिरिरक्षक । तां शिवां कल्याणीं कुरु । अच्छा वदामसि । अच्छा

निर्मलम् । वदामसि वदाम । अच्छशब्दस्य " <quote>&quot;निपातस्य "&quot;</quote> इति दीर्घः ।
"

<quote>&quot;
इदन्तो मसि,"&quot;</quote> इदनर्थको निपातः ।
 
सुमनस्कमसत् भवेत् । लिङथें लेट् तिप्
प्रभवत्यट् । शरव्या शरसंधात्री ज्या ।
 
अयक्ष्मं नीरोगम् । सुमनाः

सुमनस्कमसत् भवेत् । लिङर्थे लेट् तिप्
इतश्च लोपः । परस्मैपदेषु लेट:
टः
प्रभवत्यट् । शरव्या शरसंधात्री ज्या । <quote>&quot;
शरो दध्यग्रबाणयोः "&quot;</quote> इति
 
66
 

विश्वः । शरमर्हति यत् । अव शरस्य चेत्यवादेशः । शरुवृत्ताद्वा सिद्धं
 
66
 

<quote>&quot;
शरुरायुधकोपयोः " । " &quot;</quote> । <quote>&quot;उगवादिभ्यो यत्
उगवादिभ्यो यत् "
&quot;</quote> । जीवसे जीवितुं मृड

मोदय । यद्वा हे मृड । तया तन्वा नः अस्मान् जीवसे जीवयसि । शन्तमया

अतिशयेन शं शंतमा तया अभिचाकशत्, कशेर्यङ् उदात्ताल्लेट् तिप् अट् ।

अतिशयेन प्रकाशयत्विति प्रार्थना । बभ्रुः पिङ्गलः अव एषां ह ईडे

स्तुतये ईमहे कामयामहे ॥ १ ॥
 
</p>
<trailer>
इति प्रथमः खण्डः
 
</trailer>
<metadata>div.n = 2</metadata>
<heading>
द्वितीयः खण्डः
 
</heading>
<verse>
अपश्यं त्वावरोहन्तं नीलग्रीवं विलोहितम् ।

उत त्वा गोपा अदृशन्नुत त्वोदहार्यः ॥
 
</verse>
</page>