This page has not been fully proofread.

२९८
 
शैव-उपनिषदः
 
एतु आगच्छतु । योगक्षेमकरोऽभिषेकजले संनिहितो भवत्वित्यर्थः । मन्त्र-
लिङ्गादभिषेके विनियोगः । भामः क्रोधः । मन्युः तत्पूर्वावस्था । उतो उत ।
इषवे बाणरूपाय । अस्तवे " असु क्षेपणे " इति धातोः तवेन्प्रत्ययस्तुमर्थे,
अस्तुं क्षेप्तुमित्यर्थः । कं क्षेप्तुं गिरिशन्तं श्यतीति श्यन् गिरेः श्यन्
संबन्धसामान्ये षष्ठ्या समासः, तं गिरिशन्तं, छान्दसो यलोपः । हे गिरित्र
गिरिरक्षक । तां शिवां कल्याणीं कुरु । अच्छा वदामसि । अच्छा
निर्मलम् । वदामसि वदाम । अच्छशब्दस्य " निपातस्य " इति दीर्घः ।
" इदन्तो मसि," इदनर्थको निपातः ।
 
सुमनस्कमसत् भवेत् । लिङथें लेट् तिप्
प्रभवत्यट् । शरव्या शरसंधात्री ज्या ।
 
अयक्ष्मं नीरोगम् । सुमनाः
इतश्च लोपः । परस्मैपदेषु लेट:
शरो दध्यग्रबाणयोः " इति
 
66
 
विश्वः । शरमर्हति यत् । अव शरस्य चेत्यवादेशः । शरुवृत्ताद्वा सिद्धं
 
66
 
शरुरायुधकोपयोः " । " उगवादिभ्यो यत्
उगवादिभ्यो यत् " । जीवसे जीवितुं मृड
मोदय । यद्वा हे मृड । तया तन्वा नः अस्मान् जीवसे जीवयसि । शन्तमया
अतिशयेन शं शंतमा तया अभिचाकशत्, कशेर्यङ् उदात्ताल्लेट् तिप् अट् ।
अतिशयेन प्रकाशयत्विति प्रार्थना । बभ्रुः पिङ्गलः अव एषां ह ईडे
स्तुत ईमहे कामयामहे ॥ १ ॥
 
इति प्रथमः खण्डः
 
द्वितीयः खण्डः
 
अपश्यं त्वावरोहन्तं नीलग्रीवं विलोहितम् ।
उत त्वा गोपा अदृशन्नत त्वोदहार्यः ॥