2026-02-10 02:56:58 by ambuda-bot
This page has not been fully proofread.
i
नीलरुद्रोपनिषत्
।
या त इषुः शिवतमा शिवं बभूव ते धनुः ।
शिवा शरव्या या तव तया नो मृड जीवसे ॥
या ते रुद्र शिवा तनूरघोराऽपापकाशिनी ।
तया नस्तन्वा शंतमया गिरिशन्ताभिचाकशत् ॥
असौ यस्ताम्रो अरुण उत बभ्रुर्विलोहितः ।
२९७
ये चेमे रुद्रा अभितो दिक्षु श्रिताः सहस्रशोऽवैषां हेड ईमहे ॥ १ ॥
नीलरुद्रोपनिषदि षोडश्यां खण्डकत्रयम् ।
श्रुतिरूपेण तं देवं स्तौत्यपश्यमिति क्रमात् ॥
अस्पर्शयोगमुक्त्वा तत्संप्रदायप्रवर्तकं परमगुरुं योगसिद्धिप्रदं नीलरुद्रं
स्तौति – अपश्यमिति ॥ दिवितो दिवः पृथिवीं भूमिमवः अवस्तात्
अवरोहन्तं त्वामहमपश्यमिति मन्त्रद्रष्टुर्वचः । अस्यन्तं क्षिपन्तं दुष्टान्
66
असु क्षेपणे " इति धातोः । शिखण्डिनं, " शिखण्डो बर्हचूडयोः" इति
विश्वः । तयोरन्यतरदस्यास्तीति शिखण्डी तम् । दिवः सकाशादुग्रो रुद्रः
अवारुक्षत् अवतीर्णवान्। प्रत्यस्थात् प्रतिष्ठां स्थितिं कृतवान् । भूम्यामधि,
" अधिरीश्वरे " इत्यधिः कर्मप्रवचनीयः " यस्मादधिकं यस्य चेश्वरवचनं
तत्र सप्तमी " इति स्वात्सप्तमी । भूमेरीश्वर इत्यर्थः । जनास : " आज्जसेर-
सुक् ", " संबोधने च " इति प्रथमा । एत्यागच्छति । न वीरहा अवी-
रहा सौम्यः । यद्वा अवीराणि पापानि हम्तीत्यवीरहा । जले आसः क्षेपो
यासां ता जलासाः ताश्च ता भेषज्यश्च ता एतीत्यन्वयः । जलक्षिप्ताना-
मोषधीनामक्षेमनिर्णोदकत्वं रुद्रसन्निधानादेव ते तवाक्षेमं व्यनीनशत् । अनेन
क्षेमकारित्वमुक्तम् । अलब्धलाभो योगस्तत्कारित्वमप्याह -- वातीकार इति ॥
वातिः प्राप्तिः अप्राप्तं प्राप्तं करोतीति वातीकारः सोऽपि ते तवापूर्वलाभकर :
U 88