2026-02-27 02:18:37 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>४. शैव - उपनिषदः</ignore>
<title>नीलरुद्रोपनिषत्</title>
<subtitle>नारायणकृतदीपिकाख्यव्याख्योपेता</subtitle>
<metadata>div.n = 1</metadata>
<heading>प्रथम: खण्ड:</heading>
<verse n="1">अपश्यं त्वावरोहन्तं दिवितः पृथिवीमवः ।
अपश्यं रुद्रमस्यन्तं नीलग्रीवं शिखण्डिनम् ॥</verse>
<verse>दिव उग्रोऽवारुक्षत् प्रत्यस्थाद्भूम्यामधि ।
जनासः पश्यतेमं नीलग्रीवं विलोहितम् ॥</verse>
<verse>एष एत्यवीरहा रुद्रो जलासभेषजीः ।
वित्तेऽक्षेममनीनशद्वातीकारोऽप्येतु ते ॥</verse>
<verse>नमस्ते भवभामाय नमस्ते भवमन्यवे ।
नमस्ते अस्तु बाहुभ्यामुतो त इषवे नमः ॥</verse>
<verse>यामिषं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत् ॥</verse>
<verse>शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वमिज्जगदयक्ष्मं सुमना असत् ॥</verse>
</page>
<ignore>४. शैव - उपनिषदः</ignore>
<title>नीलरुद्रोपनिषत्</title>
<subtitle>नारायणकृतदीपिकाख्यव्याख्योपेता</subtitle>
<metadata>div.n = 1</metadata>
<heading>प्रथम: खण्ड:</heading>
<verse