This page has been fully proofread once and needs a second look.

<page>
<ignore>
४. शैव - उपनिषदः
 
</ignore>
<title>
नीलरुद्रोपनिषत्
 
</title>
<subtitle>
नारायणकृतदीपिकाख्यव्याख्योपेता
 
</subtitle>
<metadata>div.n = 1</metadata>
<heading>
प्रथम: खण्ड:
 
</heading>
<verse n="1">
अपश्यं त्वावरोहन्तं दिवितः पृथिवीमवः ।

अपश्यं रुद्रमस्यन्तं नीलग्रीवं शिखण्डिनम् ॥
</verse>
<verse>
दिव उग्रोऽवारुक्षत् प्रत्यस्थाद्भूम्यामधि ।

जनासः पश्यतेमं नीलग्रीवं विलोहितम् ॥
</verse>
<verse>
एष एत्यवीरहा रुद्रो जलासभेषजी:जीः

वित्तेऽक्षेममनीनशद्वातीकारोऽप्येतु ते ॥
</verse>
<verse>
नमस्ते भवभाभामाय नमस्ते भवमन्यवे ।

नमस्ते अस्तु बाहुभ्यामुतो त इषवे नमः ॥
</verse>
<verse>
यामिषं गिरिशन्त हस्ते बिर्ष्यस्तवे ।
 

शिवां गिरित्र तां कुरु मा हिसीः पुरुषं जगत् ॥
</verse>
<verse>
शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
 

यथा नः सर्वमिज्जगदयक्ष्मं सुमना असत् ॥
 
</verse>
</page>