This page has been fully proofread once and needs a second look.

<page>
<ignore>
सुदर्शनोपनिषत्
 
</ignore>
<verse>
पञ्चसंस्कारयुक्तानां वैष्णवानां विशेषतः ।
 

गृहार्चनविधाने न शङ्खं घण्टारवं त्यजेत् ॥ इति ॥
 
</verse>
<ignore>
२९०
 
</ignore>
<p>
एतदथर्वशिरो योऽधीते य ऊर्ध्वपुण्ड्रं विधिवद्विदित्वा धारयति स

वैदिको भवति । स कर्मार्हो भवति । अनेन तेजस्वी यशस्वी ब्रह्मवर्चस्वी

भवति । अनेन कार्थियिकवाचिकमानसपातकेभ्यः पूतो भवति । श्रीविष्णु-

सायुज्यमवाप्नोति । श्रीविष्णुसायुज्यमवाप्नोति । य एवं वेद । इत्युपनिषत् ॥
 
</p>
<trailer>
इति सुदर्शनोपनिषत् समाप्ता
 
</trailer>
</page>