This page has not been fully proofread.

सुदर्शनोपनिषत्
 
पञ्चसंस्कारयुक्तानां वैष्णवानां विशेषतः ।
 
गृहार्चनविधाने न शङ्खं घण्टारवं त्यजेत् ॥ इति ॥
 
२९०
 
एतदथर्वशिरो योऽधीते य ऊर्ध्वपुण्ड्रं विधिवद्विदित्वा धारयति स
वैदिको भवति । स कर्मा भवति । अनेन तेजस्वी यशस्वी ब्रह्मवर्चस्वी
भवति । अनेन कार्थिकवाचिकमानसपातकेभ्यः पूतो भवति । श्रीविष्णु-
सायुज्यमवाप्नोति । श्रीविष्णुसायुज्यमवाप्नोति । य एवं वेद । इत्युपनिषत् ॥
 
इति सुदर्शनोपनिषत् समाप्ता