This page has not been fully proofread.

२९४
 
ara-उपनिषदः
 
यो ह वै सुश्लोकमौले धर्माननुतिष्ठमानोऽमिना चक्रं योऽभिर्वै सहस्रारस्सह-
खारो नेमिर्नेमिना तप्ततनूस्सायुज्यं सलोकतामाप्नोतीति ।
 
चक्रं बिभर्ति वपुषाभितप्तं बलं देवानाममृतस्य विष्णोः ।
स एति नाकं दुरिता विधूय विशन्ति यद्यतयो वीतरागाः ॥
चमूषच्छयेनश्शकुनो बिभृत्वा गोविन्दद्रप्स आयुधानि बिभ्रत् [?]।
अपामूर्मि सचमानस्समुद्रं तुरीयं धाम महिषो विवक्ति [?] ॥
शङ्खचक्रोर्ध्वपुण्ड्रादिधारणं स्मरणं हरेः ।
 
तदीयाराधनं चैव भक्तिर्बहुविधा स्मृता ॥
पशुपुत्रादिकं सर्वे गृहोपकरणानि च ।
अङ्कयेच्छङ्खचक्राभ्यां नाम कुर्याच्च वैष्णवम् ॥
पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः ।
तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम् ॥
दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् ।
सव्ये तु शङ्खं बिभृयादिति ब्रह्मविदो विदुः ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः ।
अर्चनीयश्च सेव्यश्च नित्ययुक्तः स्वकर्मसु ॥
ये कण्ठलमतुलसीनलिनाक्षमाला
 
ये बाहुमूलपरिचिह्नितशङ्खचक्राः ।
ये बा ललाटफलके लसदूर्ध्वपुण्ड्राः
 
श्रीवैष्णवा भुवनमाशु पवित्रयन्ति ॥
पञ्चार्द्रतत्त्वविदुषां पञ्चसंस्कारसंस्कृतम् ।
पञ्चावस्थास्वरूपं ते विज्ञेयं सततं विभो ॥