This page has been fully proofread once and needs a second look.

<page>
<ignore>
सुदर्शनोपनिषत्
 
</ignore>
<title>
सुदर्शनोपनिषत्
 
</title>
<ignore>
२९३
 
</ignore>
<p>
यज्ञोपवीती धृत चक्रधारी यो ब्राह्मणो ब्रह्मविद्ब्रह्मविदां मनीषी हिरण्य-

मादाय सुदर्शनं कृत्वा वह्निसंयुक्तं स्त्रीशूद्रैर्बाहुभ्यां धारयेत् । तस्माद्गर्भेण

जायते । ब्राह्मणस्य शरीरं जायते । श्रीविष्णुं सर्वेश्वरं भजन्ति ।
 
</p>
<verse>
नासादिकेशपर्यन्तमूर्ध्वपुण्ड्रं तु धारयेत् ।
 

उद्धृतासि वराहेण कृष्णेन शतबाहुना ।
</verse>
<verse>
भूमिधेनुर्धरणी लोकधारिणी ॥
 
</verse>
<p>
मृत्तिके देहि मे पुष्टिं त्वयि सर्वेवं प्रतिष्ठितम् ॥
 
1
 
</p>
<p>
तस्माद्विरेखं भवति । तं देवकीपुत्रं समाश्रये । अग्निना वै होत्रा

चक्रं पाञ्चजन्यं प्रतप्तं द्वयोर्भुजयोर्धारयेत् । आत्मकृतमाचरेत् । आचार्यस्य

संमुखं प्रपद्येत । तस्माद्वैकुण्ठं न पुनरागमनं सालोक्यसामीप्यसारूप्य-

सायुज्यं गच्छति । य एवं वेद । इत्युपनिषत्
 
66
 
<ref>1</ref> ।</p>
<p>
यजुर्वेदे तृतीयकाण्डे तृतीयप्रश्ने- -- <quote>&quot;कक्षमुपौषेद्यदि दहति पुण्यसमं

भवति यदि न दहति पापसममेतेन "&quot;</quote> । उष दाहे । उपकक्षं भुजः । "<quote>&quot;चरणं

पवित्रं विततं पुराणम् । येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन

पूताः । अतिपाप्मानमरातिं तरेम । लोकस्य द्वारमर्चिमत्पवित्रम् । ज्योति -

ष्मद्भ्राजमानं महस्वत् । अमृतस्य धारा बहुधा दोहमानम् । चरणं नो लोके

सुधितां दधातु " । "&quot;</quote> । <quote>&quot; पवित्रं ते विततं ब्रह्मणस्पते । प्रभुर्गात्राणि पर्येषि

विश्वतः । अतप्ततनूर्न तदामो अश्नुते । शृतास इद्वहन्तस्तत्समाशत । "
 
&quot;</quote></p>
<footnote>
1
 
1 "
&quot;यज्ञोपवीतोपनिषत् "&quot; इत्याख्यया या पूर्वं प्रकाशिता सैवेयमेतदवधीति

विभाव्यताम् ।
 
</footnote>
</page>