This page has not been fully proofread.

सुदर्शनोपनिषत्
 
सुदर्शनोपनिषत्
 
२९३
 
यज्ञोपवीती धृत चक्रधारी यो ब्राह्मणो ब्रह्मविद्ब्रह्मविदां मनीषी हिरण्य-
मादाय सुदर्शनं कृत्वा वह्निसंयुक्तं स्त्रीशूद्रैर्बाहुभ्यां धारयेत् । तस्माद्गर्भेण
जायते । ब्राह्मणस्य शरीरं जायते । श्रीविष्णुं सर्वेश्वरं भजन्ति ।
 
नासादिकेशपर्यन्तमूर्ध्वपुण्ड्रं तु धारयेत् ।
 
उद्धृतासि वराहेण कृष्णेन शतबाहुना ।
भूमिधेनुर्धरणी लोकधारिणी ॥
 
मृत्तिके देहि मे पुष्टिं त्वयि सर्वे प्रतिष्ठितम् ॥
 
1
 
तस्माद्विरेखं भवति । तं देवकीपुत्रं समाश्रये । अग्निना वै होत्रा
चक्रं पाञ्चजन्यं प्रतप्तं द्वयोर्भुजयोर्धारयेत् । आत्मकृतमाचरेत् । आचार्यस्य
संमुखं प्रपद्येत । तस्माद्वैकुण्ठं न पुनरागमनं सालोक्यसामीप्यसारूप्य-
सायुज्यं गच्छति । य एवं वेद । इत्युपनिषत् ।
 
66
 
यजुर्वेदे तृतीयकाण्डे तृतीयप्रश्ने- कक्षमुपौषेद्यदि दहति पुण्यसमं
भवति यदि न दहति पापसममेतेन " । उष दाहे । उपकक्षं भुजः । "चरणं
पवित्रं विततं पुराणम् । येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन
पूताः । अतिपाप्मानमरातिं तरेम । लोकस्य द्वारमर्चिमत्पवित्रम् । ज्योति -
ष्मद्भ्राजमानं महस्वत् । अमृतस्य धारा बहुधा दोहमानम् । चरणं नो लोके
सुधितां दधातु " । " पवित्रं ते विततं ब्रह्मणस्पते । प्रभुर्गात्राणि पर्येषि
विश्वतः । अतप्ततनूर्न तदामो अश्नुते । शृतास इद्वहन्तस्तत्समाशत । "
 
1
 
1 " यज्ञोपवीतोपनिषत् " इत्याख्यया या पूर्वं प्रकाशिता सैवेयमेतदवधीति
विभाव्यताम् ।