This page does not need to be proofread.

२६०
 
'वैष्णव- उपनिषदः
 
स एव क्रीडायां मनोभावापन्नो भवति । पुनः शिव उवाच । त्वयोक्तानि
द्वादशवनानि । तेषु वनेषु पृथक् पृथक् वद सर्वम् । स होवाच । शृणु शिव
वर्णनं वनानां यानि श्रुत्वा व्रजलीलायामत्यन्तसुखिनः संभवन्ति । महावने
नन्दस्याधिष्ठानम् । गोकुले गवामधिष्ठानम् । यमुनायां क्रीडाधिष्ठानम् ।
वृन्दावने स्वामिन्या लीलाधिष्ठानम् । कामवने महालीलासङ्केतस्याधिष्ठानम् ।

बृहद्वने वृषभानुपुरनन्दपुराधिष्ठानम् । लोहवने पुलिन्दस्याधिष्ठानम् ।
तालवने उपनन्दाद्यधिष्ठानम् । दधिग्रामे दध्यधिष्ठानम् । गोवर्धनाद्रिपृष्ठे
दधिविक्रयाधिष्ठानम् । गोवर्धनाद्रयधो दानश्रेणिदानलीलाधिष्ठानम् । अयं
गोवर्धनाद्रिः रमणलीलाधिष्ठानं भवति ।
 
अरिष्टे गोगणे कुब्जवटे वृन्दावने तथा ।
 
गोवर्धनगिरौ रम्ये सृष्टिः सर्वात्मना भवेत् ॥
 

 
भोः शिव अस्मिन् स्थाने श्रीराधारसिकानन्दावेव रूपेण सदा रमणं
कुरुतो लीलासमेतौ । अत्यद्भुता संसिद्धा लीला सदा गोवर्धनाद्रौ ।
आनन्दमये स्थाने तप आचर । स रुद्रो रुद्राण्या सह तत्र पुष्करिणीं विधाय
तन्नारायणमुखात् श्रुतं लोकस्य ध्यानमकरोत् । किञ्चिद्ध्यानेन ध्याना-
पन्नोऽभवत् । दशसहस्रवर्षे तल्लोकदर्शनार्थं तप आचरत् । तद्ध्यानेन
निकुञ्जदेव्या दृष्टिपथमतिमोहनेन रूपेणानन्ददर्शनमापेदे । घनविद्युदुपम-
रूपनवीनया जायया सह केलिसम्पत्तिसमवेतं रमणानन्दं क्रीडास-
मेतमरूपयत् । तद्रूपदर्शनेन समाकुलोऽयं शिवंस्त्रिभिर्नत्रैर्निरूपयन् पुनःपुनः
पञ्चभिर्वक्त्रैः स्तुतिमापेदे । उवाचायं शिवः । अं अं अनन्ताय नमो नमः ।
श्रीं श्रीं श्रीकृष्णाय तुभ्यं नमो नमः । सं सं संभोगप्रियाय नमो नमः । बृं
बृं बृन्दावनविहारिणे नमो नमः । कुंकुं कुञ्जविहारिणे नमो नमः । लं लं
ललिताविहारिणे नमो नमः । क्रीं क्रीं क्रीडावनविहारिणे नमो नमः । रां रां
 
CC.0- J
<page>
<p><
ngamwaote>dupli Mcathe Collpagectio</n. Digitized by eGangotri
 
e></p>
</page>