This page has not been fully proofread.

सामरहस्योपनिषत्
 
२३७
 
कथिता तदा श्रुतं तदहं वर्णयामि । अहो महालीलायाः स्थानं नारायणेनापि
न दृष्टम् । यत्राष्टौ मणयः संराजमाना भवन्ति । चन्द्रकान्तमणिनामृतेन
पुष्पपल्लविता वृक्षाः सेव्यमाना भवन्ति । लतानामालवालानि सौवर्णानि
दीप्यमानानि जलैः पूर्यमाणानि भवन्ति । तत्र सूर्यकान्तमणिना प्रदीप्य-
माना वृक्षलताः शोभायमाना भवन्ति । मणिलताभिर्ग्रथितानि मन्दिराणि
तेजोमयानि संराजन्ते । प्रसारितलता वृक्षैर्ग्रथिता निकुञ्जतां प्राप्नुवन्ति ।
तेषु निकुञ्जेषु लतानां नानारङ्गाः संदीप्यन्ते । तत्र शृङ्गारवत्यादयः सख्यः
शय्योपकरणानि रचयन्ति । सुशोभायमानाः पक्षिणः कलशब्देन श्रीराधि-
कायाः शृङ्गाररसं सङ्गायन्तो भवन्ति । पिकयूथानि मनोहरेण शब्देन
देववाण्या तस्याः श्रीराधिकाया रमणलीलां गायन्ति । तत्र मध्ये मण्डलं
तेजोमयमस्ति । हाटकमया तेजोभूमयस्तेजोमयाः संविराजन्ते । यत्र
भूमौ परित अष्टौ मणयः सन्ति तेषां प्रसारिता लता: सुवर्णलताभिर्मुक्ता-
लताभिर्ग्रथिताः पुष्पैः पल्लवैः संवलिता भवन्ति । प्रतिमण्येकैकं मन्दिरं
सकलसिद्धवस्तुसमन्वितं भवति । रतिमन्दिरे शय्याः पयः फेननिभाः
संराजन्ते । तत्रान्नानि विविधानि अन्यपूर्णया सख्या पाचितानि ।
प्रतिक्षणं नूत्नानि श्रीराधिकायै भोज्यार्थे भवन्ति । तत्र सुगन्धरसिकया सख्या
रचिताः सुगन्धरसा अगुरुचन्दनकेसरीमृगमदकपूरीद्या अनेकसुगन्धरसाः
श्रीराधिकया संभोज्या भवन्ति । तत्र शृङ्गारयत्या सख्या रचिताः
शृङ्गारा वस्त्रालङ्कारसंयुक्ताः सुभगा नानावस्तुमयाः श्रीराधिकार्थे कल्पिताः
सुभोज्या भवन्ति । रङ्गवत्या रचिता रतिरङ्गा वानप्रतिवचनमया इन्द्रि -
यादिभावमयाः श्रीराधिकाया भोगार्थे भवन्ति । गानवत्या रचिता नाना-
रागरङ्गभोगाः समयोचिताः प्रतिक्षणं नूत्नाः श्रीराधिकार्थे सुभोज्या भवन्ति ।
नृत्यकवत्या रचिताः सुगन्धकलाः श्रीराधिकार्थे कल्पिता भवन्ति । तत्र