2026-02-17 02:35:12 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२१८</ignore>
<ignore>वैष्णव- उपनिषदः</ignore>
<p>शुभं हरिमन्दिरं मध्यपद्मं कण्ठेतुलसी शङ्खचक्रं गदा बाहुगोपीचन्दनचर्चनं
परं गतिः जीवोत्तमस्य । ब्रह्मा शक्तिर्महादेवो जन्यते पुरुषोत्तमात् । ॐ
आपोऽमृतमर्त्यस्य मर्त्योऽपश्यत् यस्तु जन्यते पुरुषोत्तमात् । अमृतात्
प्राणाश्चाहो मम जायन्ते पुरुषोत्तमात् । मनसि निषण्णः श्रीप्राणाय प्रज्ञानाय
स्वराट् पुरुषोत्तमः । श्रीकृष्णभगवान् नारायणः परमात्मा पुरुषोत्तमः
त्रिगुणरहितः स्वयम् । कथम् ? पुरुष एवेदं सर्वम् ॥</p>
<trailer text="END">इति श्रीकृष्णपुरुषोत्तमसिद्धान्तोपनिषत् समाप्ता</trailer>
<ptitle text="START">सङ्कर्षणोपनिषत्</ptitle>
<p merge-next="true">अथ तद्विष्णोः इति शान्तिः । अथ सङ्कर्षणोपनिषदुच्यते । शेषो ह
वै वासुदेवात्सङ्कर्षणो नाम जात आसीत् । सोऽकामयत प्रजाः सृजेयेति ।
ततः प्रद्युम्न्नसंज्ञं मन आसीत् । तस्मादहंकारनामाऽनिरुद्धः । ततो हिरण्य-
गर्भोऽजायत । तस्माद्दश प्रजापतयो मरीच्यादय: स्थाणुदक्षकर्दमप्रियव्रतो-
तानपादादयोऽप्यजायत । तेभ्यः सर्वाणि भूतानि च । तस्माच्छेषादेव
सर्वाणि समुत्पद्यन्ते । तस्मिन्नेव प्रलीयन्ते । स एव बहुधा जायमानः
सर्वान् परिपाति । स एव काद्रवेयो व्याकरणज्यौतिषादिशास्त्राणि निर्मिमाणो
बहुभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन् शीर्ष्णि सिद्धार्थवद्धार-
यमाणस्सर्वैर्मुनिभिः संप्रार्थ्यमानः सहस्रशिखरमेरोश्शिरोभिर्वारयमाणो
महावायोरहंकारं निराचकार । स भगवान् युगसन्धिकाले स्वेन रूपेण
युगे युगे तेनैव जायमानः स्वयमेव सौमित्रिरैक्ष्वाके<add>[वंशे जा]</add>यमा<add>[नो]</add>
रक्षांसि सर्वाणि विनिघ्नन् चातुर्वर्ण्यधर्मान् प्रवर्त<add>[यति । ]</add> स एव
भगवान् युगसन्धिकाले<add>[शरदभ्रसं]</add>निकाशो रौहिणेयो वासुदेवः सर्वाणि</p>
</page>

<