This page has been fully proofread once and needs a second look.

<page>
<ignore>श्रीकृष्णपुरुषोत्तमसिद्धान्तोपनिषत्</ignore>
<ignore>२१७</ignore>
<title>श्रीकृष्णपुरुषोत्तमसिद्धान्तोपनिषत्</title>
<verse>निरञ्जनो निराख्यातो निर्विकल्पो नमो नमः ।
पूर्णानन्दो हरिर्मायारहितः पुरुषोत्तमः ॥</verse>
<p>अष्टावष्टसहस्रे द्वे स्त्रियो जायन्ते पुरुषोत्तमात् । स्मृतिर्जायते
पुरुषोत्तमात् । षट्च्छास्त्राणि जायन्ते पुरुषोत्तमात् । छन्दो जायते पुरुषो-
त्तमात् । निगमो जायते पुरुषोत्तमात् । प्रजापतिर्जायते पुरुषोत्तमात् ।
शशिरवी जायेते पुरुषोत्तमात् । सकलतीर्थानि जायन्ते पुरुषोत्तमात् ।
परशिवशक्तिर्जायते पुरुषोत्तमात् । ऋषयोऽनृषयो जायन्ते पुरुषोत्तमात् ।
इन्द्रो जायते पुरुषोत्तमात् । द्वादशादित्या रुद्राः सर्वा देवता जायन्ते
पुरुषोत्तमात् । देवा जायन्ते पुरुषोत्तमात् । सप्त सागरा जायन्ते पुरुषोत्त-
मात् । सर्व आत्मा जायते पुरुषोत्तमात् । मनः सर्वेन्द्रियाणि जायन्ते पुरुषो -
त्तमात् । अष्टादश ब्रह्माण्डानि जायन्ते पुरुषोत्तमात् । अष्टसिद्धिनवनिधयो
जायन्ते पुरुषोत्तमात् । वनभारा अष्टादश जायन्ते पुरुषोत्तमात् । अमृतो
जायते पुरुषोत्तमात् । अम्भो जायते पुरुषोत्तमात् ॥</p>
<p merge-next="true">ॐ निगमं शङ्करोऽब्रवीत् । गौः । ग्मा । ज्मा । क्ष्मा । क्षा ।
क्षमा । क्षोणिः । क्षितिः । अवनिः । उर्वी । पृथ्वी । मही । रिपः ।
अदितिः । इळा । <ref>1</ref>जीवामकालाशूता जीवः जीवा अस्ताजीव्यामं सर्वमायु-
जीव्याप्तं <add>[ ? ]</add> । लोदंकंचनंकांचानु अमृतं न भवति <add>[ ? ]</add> पारमधाराणि
<add>[परमधर्माणि]</add> जातवेदाः प्रोवाचैवेदं सर्वम् । शिवशक्तिपशुजीवो ब्रह्मा भक्तः
पशुवत् <add>[?]</add> । यन्नत्यादेव परं श्रत्को परशिवः अन्या अवतारातेहि व्यास-
वल्लश्रविठलेहरयस्तथा <add>[?]</add> । ललाटे ऊर्ध्वपुण्ड्रं मध्यच्छिद्रं चन्दनतिलकं</p>
<footnote>1 &quot;जीवामकालाशूता जीवः&quot; इत्यारभ्य &quot;पुरुष एवेदं सर्वम्&quot; इत्येतत्पर्यन्तं
अतीव विकला मातृकेति सानुतापं यथास्थितं दीयते ॥</footnote>
<ignore>U 28</ignore>
</page>