2026-02-08 07:40:31 by ambuda-bot
This page has not been fully proofread.
सामरहस्योपनिषत्
२३३
। यत्र षडृतवः
काङ्क्षा स्यात् । बृन्दावने गोवर्धनाद्विशिरसि पुष्करिणीं विधाय तत्र
मम ध्यानापन्नैर्भूयताम् । ममानुग्रहेण मम लीलावलोको भविष्यतीति
ता वरेण छन्दयित्वा अन्तर्दधे । ताः कन्यास्तत्र गत्वा तथाकुर्वन् ।
तस्मिन् गोवर्धने अप्सरः पुष्करिण्यां ताः सर्वाः पूर्वोक्तया विधया
श्रीराधिकाया भजनं चक्रुः । इत्थं भजनमापन्नाः कन्या मासेनैकेन तं
लोकमपश्यन् । बृन्दावनं श्रीमत् सर्वकालसुखावहम् ।
आधिदैविकेन रूपेण सेवमाना भवन्ति । यत्र रत्नजटिला भूमयो
मणिज्योत्स्नाभिर्दीप्यमाना भवन्ति । यत्र फलैः पुष्पैः पत्रैर्मणीनां स्तंभाः
शतशो राजमाना भवन्ति । यत्र मणीनां लता भ्राजमाना विद्रुमलताभिः
ग्रथिता भवन्ति । सुवर्णलताग्रथिता मुक्तालता मुक्तागुच्छैः पूर्यमाणाः
भवन्ति । यत्र सखीनां यूथानि परस्परं शृङ्गाररसेन क्रीडमानानि भवन्ति ।
यत्र फलैः पुष्पैः सुकोमलैः पत्रैर्विराजमाना वृक्षा लताभिः संकीर्णा भवन्ति ।
यत्र मध्यश्रेणीषु सखीनां चारा अतिसुशोभमाना भवन्ति । यत्र
वकुलवृक्षाणां वनानि कुत्रचित्संराजमानानि भवन्ति । कुत्रचिन्मन्दारवृक्षाः
संराजन्ते । अम्लानपुष्पैर्नारङ्गैः सुशोभाढ्या भवन्ति । कुत्रचित्पारिजातक -
वनानि सुगन्धसंवलितानि सन्ति । तत्र वनेषून्मदाः कोकिला गायमानाः
भवन्ति । कुत्रचिन्मन्दारवृक्षाः पुष्पपरागैश्चिता वस्त्रैश्छादिता इवासन् । तासु
वृक्षाणां श्रेणीषु ताः कन्या एकं महास्थानं ददृशुः । पञ्चविंशद्योजनायतं
परितो वाप्यो दशदशचतुष्कोणेषु नानारसैः संपूर्यमाणा भवन्ति । दश
वायवः केसरकर्पूरमृगमदरसैः संपूर्यमाणा भवन्ति । दश वायवोऽगुरुरस-
संपूर्यमाणा भवन्ति । दश वायवः सुगन्धपयसा संपूर्णा भवन्ति । दश
वायव उष्णोदकेनातिनिर्मलेन सुगन्धेन संपूर्यमाणा भवन्ति ।
दश वायवो मृज्जलेन सुशीतलेन संपूर्यमाणा भवन्ति । तत्र मध्यमण्डले
U 30
तत्र