2026-02-08 07:40:31 by ambuda-bot
This page has not been fully proofread.
२३२
वैष्णव- उपनिषदः
भगवन् सर्वभूतानां हिताय भुवनेऽसि ।
शरणागतदीनानां कृपां कुर्वन्ति साधवः ॥
अतः प्रार्थयामो महालीलाया दर्शनं यत्र रसिकानन्दपुरुषोत्तमो
रमते । एवं प्रार्थितो भगवान् नारदस्तासामत्यानन्दमयलोकं दर्शयामास ।
महामन्त्रविद्यया कृतसंस्कारास्ताः सख्यस्तस्यां लीलायां भावापन्ना बभूवुः ।
ता ऊचुः । नारदेनोपदिष्टां विद्यां कथय यया विद्यया श्रीरसिकानन्दस्य
श्रीराधिकया सह क्रीडास्थानं द्रक्ष्यामः । स होवाच । शृणुत सख्यः । यस्यां
विद्यायां सद्यः समभ्यसनेन महावनविहारस्पर्शनं भवति । कृपासमभ्यसनात्
रमणानन्दलोक स्पर्शनं भवेत् । क्लीं सकलकामदात्रीं श्रं भोगदात्रीं ह्रीं
रसिकानन्दविलासदात्रीं ह्रीं रतिकेलिकलाकोविदां बां बृन्दावनशशिनीं खुं
सुरतानन्दरूपां श्रीं मनोहारिणीं नृ निकुञ्जकेलिकौतुकाविष्टदेहां
भोगात्मिकां स्त्रां सखीनां सुखदायिनीं ह्रीं रासकेलिकलात्मिकां ध्यायेत् ।
क्लीं नमः । इमां विद्यां भोगात्मिकां नारदेन दत्तां ताः कन्या जगृहु: ।
रसिकानन्दप्राप्त्यर्थे गृहीत्वा तां विद्यामभ्यसेत् । तासां पितुर्गृहे एकं वनं
नानापुष्पवृक्षैः सुशोभाढ्यम् । तत्र पुष्पलतानां निकुञ्जाः सुशोभाढ्याः
संराजमाना मनोहराः सन्ति । तत्र ताः कन्या इमां विद्यामभ्यस्तवत्यः
बृन्दावनबुद्धया । अहोरात्रं तद्बुद्धयस्तदालापास्तद्विचेष्टास्तदात्मिकाः
तस्यां लीलायां मग्ना नान्यं देहविषयं विदुः । कचिद्रुदन्त्यस्तच्चिन्तया
क्वचिन्नृत्यन्त्यः कचिदलौकिकाः कथा वदन्त्यः क्वचिद्भक्तैस्सह अनुशील-
यन्त्यः क्वचित्तस्मिन् वने बृन्दावनशोभां विधाय तद्भक्तैः सह राधा-
रसिकलीलयोरनुभवं कुर्वन्ति । एकदा तासामाश्विन्यां पौर्णमास्यां
महालीलाया महोत्सवकाले निकुञ्जदेव्या दर्शनं प्रदत्तम् । अशरीरया वाण्या
वरो दत्तः । भवतीनां मनोऽभिलाषो मया ज्ञातः । यदि मम लोकदर्शना-