This page has not been fully proofread.

1
 
1
 
सामरहस्योपनिषत्
 
1
 
२३१
 
तेजोमयं यत् निर्गुणं ब्रह्म पुराविदो वदन्ति । यस्मात्प्रजाः समुत्पन्नाः ।
ब्रह्मविष्णुरुद्रादयो यस्मादुत्पद्यन्ते लीयन्ते । आत्मविदो ज्ञानिन उत्पद्यन्ते
लीयन्ते रसमार्गिणो भक्ता यं स्थानं प्राप्नुवन्ति । कन्या ऊचुः । ये रसमार्गीयाः
भक्तास्तेषां लक्षणानि वद । नारद उवाचेदम् । ये रसिकानन्दोपासकास्ते
सर्वात्मभावेन भजनं कुर्वते । भजनानन्दोपासकानां न वर्णो नाश्रमो न देशो
न कालोऽस्ति । यो धर्माधर्मौ परित्यज्य श्रीरसिकानन्दं सेवमानो भवति स:
तां लीलां प्राप्नोति । येषां मनसि निश्चयस्तेषां प्रीतिरुत्पद्यते । य एवं
रसमार्गे प्रपन्ना न तेषां धर्माधर्मौ बाधमानौ भवतः । विषयैर्बाध्यमानोऽपि
न बाध्यते । येषामहोरात्रं सेवाकथायां नित्यमासक्तिस्तेषां भजनानन्दो
भवति । ये तस्मिन् मार्गे प्रपन्ना भक्तास्तेषां देयं ततो ग्राह्यं
यत्किञ्चिद्वस्तुमात्रम् । भक्तानां भक्तैस्सह कार्य नान्यैः । भक्तानां भक्त एव
ज्ञातिः । कुलवर्णधर्मादि सर्व दैवतं यत्किञ्चिन्मात्रम् । रसगाः सेवकाः
तेषां संबन्धो नान्यैः । अहो वेदैः पुराणैः सिद्धान्तैः शास्त्रैर्नानावादैः
नानाकर्मत्रतोपवासादिभिर्यमैर्नियमैश्च नानाऋषिकृतस्मृतिसिद्धान्तैरेकादश्युप-
वासादिव्रतनियमैस्तुलापुरुषदानादिभिर्नानादर्शन सिद्धान्तविचारैर्वर्णाश्रमोचित -
धर्मैः पितृश्राद्धादिभिः सूर्यचन्द्रोपरागकालोचितैर्ग्रहनक्षत्रताराज्योतिश्शास्त्र-
निश्चयेन भ्रान्तचित्तैर्विधिनिषेधस्मृत्योक्तैर्धर्मैर्भ्रान्ताः सन्ध्योपासनकालसं-
 
स्कारैर्बलिवैश्वदेवबलिदानोपसर्पणैर्वेद मार्गादिभिर्नियमैरेतैश्चान्यैर्धर्मैर्विभ्रान्तास्तेषां
रसिकानन्दः पुरुषोत्तमो न रमते । अहो सख्यः कर्मविभ्रान्तास्तां
लीलां कदाचिन्न जानन्ति । सानिका अग्निव्रतधारकाः कर्मजडास्तैः
सह कदाचित्तद्धर्मालापनं न कुर्यात् । अतः किं बहुनोक्तेन । ब्राह्मणा ये
भक्तिमार्गे न विदन्ति तेषां संभाषणं स्पर्श न कुर्यात् । कदाचिन्नालपेत् ।
ता ऊचु:--