This page has been fully proofread once and needs a second look.

<page>
<ignore>
२१२
 
"
</ignore>
<ignore>&quot;
वैष्णव- उपनिषदः
 
</ignore>
<ignore>
66
 
</ignore>
<ignore>
66
 
</ignore>
<p>
सरस्वती ललितादिरिति । साक्षाद्ब्रह्मस्वरूपो जगन्नाथः अहंशेषांशज्योतीरूपः

सुदर्शनो भक्तश्च । एवं पञ्चधा विभृतमिति । यत्र च मथुरा गोकुलं द्वारका

वैकुण्ठपुरी श्वेतपुरी रामपुरी यमपुरी नरसिंहपुरी नरनारायणपुरी कुबेरपुरी

गणेशपुरी शक्रपुरी एता देवतास्तिष्ठन्ति । यत्र रसातलपातालगङ्गारोहिणी-

कुण्डममृतकुण्डमित्यादिनानापुरी । यत्रान्नं सिद्वान्नम् । ('<ref>1</ref>शूद्रादिस्पर्शदोषरहितं

ब्रह्मादिसंस्कारापेक्षारहितं यत्र श्रीजगन्नाथस्य योगमित्यर्थः । <quote>&quot;नाभ्या

आसीत् "&quot;</quote> इति मन्त्रेण, " <quote>&quot;अन्नपतेऽन्नस्य "&quot;</quote> इति मन्त्रेण, " <quote>&quot;अन्नाद्याय

व्यूहध्वं सोमो राजाय भागमत्समे सुखं प्रमार्यते यशसा च बलेन

"&quot;</quote> इति मन्त्रेण, " <quote>&quot;विश्वकर्मणि स्वाहा "&quot;</quote> इति मन्त्रेण, " <quote>&quot;आपो ज्योती

रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् "&quot;</quote> इति मन्त्रेण, " <quote>&quot;पृथिवी ते पात्रं द्यौरपिधानं

ब्रह्मणस्त्वा मुखे जुहोमि स्वाहा "&quot;</quote> इति मन्त्रेण, " <quote>&quot;अन्नं ब्रह्म "&quot;</quote> इति श्रुत्या च

कैवल्यमुक्तिरुच्यते । यत्रान्नं ब्रह्म परमं पवित्रं शान्तो रसः कैवल्यमुक्तिः

सिद्धा भूर्भुवस्स्वर्महत्तत्त्वमित्यादि यत्र भार्गवी यमुना समुद्रममृतमयं

बृन्दावनानि नीलपर्वतगोवर्धनसिंहासनं प्रासादो मणिमण्टपो विमलादिषोड-

शचण्डिकागोप्यो यत्र समुद्रतीरे च निरन्तरं कामधेनुवृबृन्दं यत्र नृसिंहादयो

देवता आवरणानि यत्र न जरा न मृत्युर्न कालो न भङ्गो न जयो न

विवादो न हिंसा न शान्तिर्न स्वप्न एवं लीलाकामशरीरी स्वविनोदार्
थं
भक्तैः सहोत्कण्ठितैस्तत्र क्रीडति कृष्णः । )
 
</p>
<verse>
एको देवो नित्यलीलानुरक्तो
 
66
 

भक्तव्यापी भक्तहृद्यन्तरात्मा ।

कर्माध्यक्षः सर्वभूताधिवासः
 

साक्षी चेता केवलो निर्गुणश्च ॥
 
</verse>
<footnote>
1 कुण्डलद्वयान्तर्गतो भागो व्याख्यानवत् भाति ।
 
</footnote>
</page>