This page has been fully proofread once and needs a second look.

<page>
<ignore>
राघोपनिषत्
 
</ignore>
<ignore>
२११
 
</ignore>
<p>
गन्धमादनवन शेषशायिवनश्यामायुवनभुज्युवनदधिवनवृषभानुवनसंकेतवनदीप -

वनरासवनक्रीडावनोत्सुकवनान्येतानि चतुर्विंशतिवनानि नित्यस्थलानि नाना-

लीलयाधिष्ठाय कृष्णः क्रीडति । <add>[ तानि वनानि ]</add> वसन्तऋतुसेवितानि

मन्दादिपवनयुक्तानि <add>[सन्ति ]</add> यत्र दुःखं नास्ति सुखं नास्ति जरा नास्ति मरणं

नास्ति क्रोधो नास्ति तत्र पूर्णानन्दमयः श्रीकैशोरकृष्णः शिखण्डिदललम्बित-

त्रियुमगुञ्जावतंसमणिमय किरीटशिराः गोरोचनातिलकः कर्णयोर्मकरकुण्डलो

वन्यस्रग्वी मालतीदामभूषितशरीरः करे कङ्कणं बाहौ केयूरं पादयोः किङ्किर्णी

ट्यां पीताम्ब <add>[रं च धारयन् ]</add> गम्भीरनाभिकमलः सुवृत्तनासायुगलो

ध्वजवज्रादिचिह्नितपादपद्म महाविष्णु <add>[ रास्ते ]
 
</add> ।</p>
<verse>
एवंरूपं कृष्णचन्द्रं चिन्तयेन्नित्यशः सुधीः ॥ इति ॥
 
</verse>
<p>
तस्याद्या प्रकृती राधिका नित्या निर्गुणा सर्वालङ्कारशोभिता प्रसन्नाशे-

षलावण्यसुन्दरी । अस्मदादीनां जन्म तदधीनं अस्यांशाद्बहवो विष्णुरुद्रादयो

भवन्ति । एवंभूतस्यागाधमहिम्नः सुखसिन्धोरुत्पन्नमिति मानसपूजया ध्यानेन

कीर्तनेन स्तुत्या मानसेन सर्वेण नित्यस्थलं प्राप्नोति । नान्येनेति । नान्येनेति ।

नान्येनेति । इति वेदवचनं भवति । इति वेदवचनं भवति । इति वेदवचनं

भवति ॥
 
</p>
<trailer>
इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां तृतीयः प्रपाठकः
 
</trailer>
<metadata>div.n = 4</metadata>
<heading>
चतुर्थ: प्रपाठकः
 
</heading>
<p merge-next="true">
अथ पुरुषोत्तमो यस्यां निशायां तुरीयं साक्षाद्ब्रह्म । यत्र परमसंन्या-

सस्वरूपः कृष्णः कल्पपादपः । यत्र लक्ष्मीर्जाम्बवती राधिका विमला चन्द्रावली
 
</p>
</page>