2026-02-08 07:40:31 by ambuda-bot
This page has not been fully proofread.
सामरहस्योपनिषत्
२२९
वसन्तस्तत्रैव कामावेशो जन्यते । स कामः सखीरूपं विधायोपसेवमानः
आस्ते । रतिभावे सा व्रजेश्वरी तां देवीमुपसेवमानातिगुणगणनया
कचित्पुष्पावेशेन वसन्तं सुखमुपसेवते । क्वचित्फलावेशेन वसन्त उपसेवते ।
क्वचित्कोमलाङ्कुरावेशेन वसन्त उपसेवमान आस्ते । कचित्पक्षिणां
रवेण उपसेव्यमान आसेवामातनोत् । कचिल्लतान्तरैराविर्भावेनोन्मदभ्रमर-
पिकशुका गीतगानं कुर्वाणा आपद्यन्ते । रसिकानन्दस्तया निकुञ्जदेव्या
सह वसन्तोद्भवैः पत्राङ्कुरैः शय्यां विधाय वसन्तसुखान्यनुभवन्नास्ते ।
विविधलतान्तरेषु पुष्पगुच्छ संवलिताः सख्यः शय्यां विविधप्रकारां प्रतिकुञ्जं
रचयन्ति । उपकरणकामकलया सुरतकेलिज्ञ उपतापसुखमन्वभूत् । आसे-
दिवान् रतिरससुरतानन्दो विविधकलारूपेण प्रतिपद्यमानो भवति । हाव-
भावकेलिकौतुकानि भवन्ति । वसन्तः कामेन सह रसलीलारतिं विस्तार -
यति । तत्रानेकलता वसन्तोद्भवैः कुसुमैर्वनलीलायां प्रफुल्लिता नम्राः
भवन्ति । नानाकौतुकाविष्टाः प्रेमवत्यादयः सख्य अतिभावापन्ना बभूवुः ।
तस्यां लीलायां चतस्रः सख्यः श्रीराधिकां संसेवमाना भवन्ति । तस्य
वसन्तस्य सुखं केनोपवर्ण्यते । चतस्रः सख्यः कथिताः । तासां नामानि
शृणुत । रङ्गवती गुणवती गानवती मनोरमा । एताः सख्यस्तस्मिन्
वसन्तस्थाने सेवमाना भवन्ति । तद्वसन्तस्थानं श्रीराधिकाया अतितरां
वल्लभं भवति । तत्स्थानं श्रीराधिकया रसिकानन्देन सह सेव्यमानं भवति ।
ताः सख्यस्तस्मिन् स्थाने प्रेम्णो भावं विस्तारयन्ति । रङ्गवती रसरङ्गलीलां
विस्तारयति । नानाभावेन वसन्तरङ्गभोगान् विस्तारयति । एवं नानाभाव-
भेदं सुरतानन्दं विस्तारयति । गुणवती रागरङ्गसुगन्धरसवीणावेणुप्रणाळिकया
सर्वासां सखीनां कामलीलायाः प्रबोधं जनयति । गानवती गीतगानगुणेन
श्रीरसिकानन्दस्य श्रीराधिकां प्रीणयति । मनोरमा मनोरमं भावमापन्ना