This page has not been fully proofread.

२२८
 
वैष्णव- उपनिषदः
 
सदा सेवितं रसिकानन्देन सह । तस्मिन् वायवः शीतमन्दसुरभिभावेन
सेवमानाः सन्ति । तत्र स्थाने अमृतोदा पुष्करिणी आस्ते । तासु पुष्करिणीषु
कन्दुकलीलया श्रान्ताः सख्यो मञ्जनं कुर्वन्ति । अतितरां सितजलकल्लोलैर्मञ्ज-
नक्रियायां तस्मिन्नत्यन्तरसमग्नानि हंसयूथानि राजन्ते । उपरि पक्षिणां
पङ्क्तिः कलकण्ठैः सेव्यमाना अभ्येति । अतितरामानन्दमनाः सखीनां
गणा गुणगणान् सङ्गायमाना भवन्ति । तत्रोपर्येकं शृङ्गारस्थलं
मन्दिरमस्ति । एकं भक्ष्यभोज्यस्थलमस्ति । एकं सखीसङ्गमोपवेशताम्बूल-
सुगन्धरससेवनायैवेति । एकं शय्यागृहं सुगन्धमणिमयभोगान्वितम् ।
आधिदैविकेन रूपेण कामः सखीरूपं विधाय स्वयमेव सेवमान आस्ते ।
रतिसंभोगातिकलाकौतुकानि नेत्रहावभाव कटाक्षसंवलितकामरसभावभेदानि
संयोक्ष्यमाणकामरससुखसंपत्तियोग्यतां मनोभवः संयोक्ष्यमाणसुखं च पिबति ।
नित्यं नित्यनूनभावभेदशृङ्गारं नूनम् । रूपं नूनम् । क्रीडा नूना । वचनं
नूनम् । प्रतिक्षणं प्रतिक्षणं नूनमेव सुखं सखीनाम् । नूनः सर्वो भाव आस्ते ।
एकादशश्रेणयः सदा वसन्तस्थानम् । किंशुकवकुलाम्रवृक्षाः शोभायमानल-
वङ्गलतापरिशीलिता अत्यन्तं निगूढगुच्छपुप्पपरागा भवन्ति । उन्म-
दकोकिलभ्रमरसूक्ष्म स्वरसङ्गीयमानानि सखीनां यूथानि केशबन्धन-
वस्त्राण्यतिरञ्जितानि शोभामातन्वन्ति । कलगीतानि वसन्तोद्भवानि
सङ्गीयन्ते । तस्मिन् स्थाने सदा कौतुकाविष्टा गोप्य : केसरकर्पूरमृगमदा-
गुरुरसान् सेचयन्त्यो भवन्ति । परस्परं हस्तैः कनकखचितजटिताः सर्वाः
कन्या मृगमदकर्पूररसं सिञ्चन्त्य आपद्यन्ते । अभिलिम्पन्त्यः परिमृजन्त्यः
अञ्जन्त्यो लोचने काश्चित् काश्चित् गानं गायन्त्यो गोप्यः । तां व्रजेश्वरीं
व्रजनायिकां ताः सख्यो वेषशृङ्गारशोभासंराजितामशोभयन्त । तस्मिन्
वसन्तऋतुः सखीरूपं विधाय तां व्रजेश्वरीमुपसेवमान आस्ते । यत्र