This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
राघोपनिषत्
 
</ignore>
<ignore lang="sa">
२०९
 
</ignore>
<p lang="sa">
श्रद्धा । याम्यां पद्मा । नैर्ऋत्यां भद्रा । षोडशदले अग्रे चन्द्रावती । तद्वामे

चित्ररेखा । तत्पार्श्वे चित्रकरा । तत्पार्श्वे मदनसुन्दरी । तत्पार्श्वे श्रीमदा ।

तत्पार्श्वे शशिरेखा । तत्पार्श्वे कृष्णप्रिया । तत्पार्श्वे बृन्दा । तत्पार्श्
वे
मनोहरा । तत्पार्श्वे योगनन्दा । तत्पार्श्वे परानन्दा । तत्पार्श्वे प्रेमानन्दा ।

तत्पार्श्वे सत्यानन्दा । तत्पार्श्वे चन्द्रा । तत्पार्श्वे किशोरीवल्लभा । तत्पार्श्वे

करुणाकुशला इति । एवं विविधा गोप्यः कृष्णसेवां कुर्वन्तीति । इति

वेदवचनं भवति । इति वेदवचनं भवति । इति वेदवचनं भवति ।

मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुत्या मानसेन सर्वेण नित्यस्थलं

प्राप्नोति । नान्येनेति । नान्येनेति । नान्येनेति ॥
 
</p>
<trailer lang="sa">
इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां प्रथमः प्रपाठकः
 
</trailer>
<p>div.n = 2</p>
<heading lang="sa">
द्वितीयः प्रपाठकः
 
1
 
</heading>
<p lang="sa">
ॐ साऽनुयुक्ता । तस्य बाह्येषु शतदलपद्मपत्रेषु योगपीठेपु रासक्रीडा-

नुरक्ता गोप्यस्तिष्ठन्ति । एतच्चतुर्द्वारं लक्षसूर्यसमुज्ज्वलम् । तत्र द्रुमाकीर्णम् ।
। ।

तत्प्रथमावरणे पश्चिमे सम्मुखे स्वर्णमण्डपे देवकन्या । द्वितीये सुदामादि ।

तृतीये किङ्किण्यादि । चतुर्थे लवङ्गादि । पञ्चमे कल्पतरोर्मूले उषा तत्सहितोऽ-

निरुद्धोऽपि । षष्ठे देवाः । सप्तमे रक्तवर्णो विष्णुरिति द्वारपालाः । एतद्वाबाह्यं

राधाकुण्डम् । तत्र स्नात्वा राधाङ्गं भवति । ईश्वरस्य दर्शनयोग्यं भवति ।

यत्र स्नात्वा नारद ईश्वरस्य नित्यस्थलसामीप्ययोग्यो भवति । राधाकृष्णयोरे-

कमासनम् । एका बुद्धिः । एकं मनः । एकं ज्ञानम् । एक आत्मा । एकं

पदम् । एका आकृतिः । एकं ब्रह्म । तया समं हेममुरळीं वादयन् हेमस्व-
 
</p>
<ignore lang="sa">
U 27
 
</ignore>
</page>