This page has been fully proofread once and needs a second look.

<page>
<ignore>
२०८
 
</ignore>
<ignore>
वैष्णव- उपनिषदः
 
</ignore>
<title>
राधोपनिष
 
त्</title>
<metadata>div.n = 1</metadata>
<heading>
प्रथमः प्रपाठकः
 
</heading>
<p merge-next="true">
ॐ अथ सुषुप्तौ रामः स्वबोध माधायेव किं मे देवः काक्वासौ

कृष्णो योऽयं मम भ्रातेति तस्य का निष्ठा ब्रूहीति । सा वै ह्युवाच ।

राम शृणु भूर्भुवस्स्वर्महर्जनस्तपस्सत्यं तलं वितलं सुतलं रसातलं

तलातलं महातलं पातालं एवं पञ्चाशत्कोटियोजनं बहुलं स्वर्णाण्डं

ब्रह्माण्डमिति अनन्तकोटिब्रह्माण्डानामुपरि कारणजलोपरि महाविष्णोर्नित्यं

स्थानं वैकुण्ठः । स ह पृच्छति । कथं शून्यमण्डले निरालम्बने वैकुण्ठ इति

सानुयुक्ता । पद्मासनासीनः कृष्णध्यानपरायणः शेषदेवोऽस्ति । तस्यानन्त-

रोमकूपेष्वनन्तकोटिब्रह्माण्डानि अनन्तकोटिकारणजलानि तस्य सप्तकोटि-

परिसहस्रपरिमिताः फणाः तदुपरि वैकुण्ठो विष्णुलोक इति । रुद्रलोकः

शिववैकुण्ठ इति । दशकोटियोजनविस्तीर्णो रुद्रलोकः । तदुपरि विष्णु -

लोकः । सप्तकोटियोजनविस्तीर्णो विष्णुलोकः । तदुपरि सुदर्शनचक्रं

त्रिकोटियोजनविस्तीर्णम् । तदुपरि कृष्णस्य स्थानं गोकुलाढ्यं माथुरमण्डलं

महत्पदं सुधामयसमुद्रेणावेष्टितमिति । तत्राष्टदलकेसरमध्ये मणिपीठे सप्ता-

वरणकमिति । स पृच्छति । किं रूपं किंस्थानं किं पद्मं किमन्तः केसर:

किमावरणम् । इत्युक्ते सानुयुक्ता । गोकुलाढ्ये माथुरमण्डले वृन्दावनमध्ये

सहस्रदळपद्मे षोडशदलमध्ये अष्टदलकेसरे गोविन्दोऽपि श्यामपीताम्बरो

द्विभुजो मयूरपिञ्छशिराः वेणुवेत्रहस्तो निर्गुणः सगुणो निराकारः साकारो

निरीह : स चेष्टते विराजत इति । पार्श्वे राधिका चेति । तस्या अंशो

लक्ष्मीदुर्गाविजयादिशक्तिरिति । पश्चिमे सम्मुखे ललिता । वायव्ये श्यामला ।

उत्तरस्मिन् श्रीमती । ऐशान्यां हरिप्रिया । पूर्वस्मिन् विशाला । अग्नेय्यां
 
</p>
<ignore>
1
 
</ignore>
</page>