This page has not been fully proofread.

1
 
सामरहस्योपनिषत्
 
२२५
 
सेव्यमाना भवन्ति । तत्रान्याः पुष्करिण्यः शीतोदकपूर्णा भवन्ति । चन्द्रका-
न्तमणेरुत्पन्नैर्जलैः सेव्यमाना मुक्कालता मुक्तागुच्छैः संपूरिता भवन्ति ।
मणिलतासु ज्योत्स्नायां प्रतिबिम्बिताः पक्षिणः परस्परं दृष्टिबन्धेन नृत्यं
कुर्वन्ति । द्वितीयं शृङ्गारस्थानम् । यत्र शृङ्गारवत्या सख्या अधिश्रितम् । तस्मिन्
स्थाने अधिश्रिता रङ्गवत्यादयः सख्यो मादन्ते । तृतीयं मानस्थानम् । यत्र
मानवत्यादयः सख्यो मानं रचयन्ति । यस्मिन् मन्दारवृक्षाः सुवर्णलता:
सुगन्धा ग्रथिता भवन्ति । तेषु वृक्षेषु पुष्पाणि सुगन्धसंवलितानि भवन्ति ।
लतान्तरैराच्छादितं स्थानं सुगन्धसंवलितं मनोरमं तेजसा दीप्यमानं भवति ।
हरितपीतच्छायाभिः संयुतं तेजसा दीप्यमानं भवति । मन्दारनिकुञ्जा:
श्रीराधिकाया अधिष्ठानम् । यमुनायास्तीरे धीरसमीरे एकवटश्चकास्ति ।
तस्य वटस्य परितो निकुञ्जानां श्रेणयो राजमाना भवन्ति । द्वादश निकुञ्जा:
सन्ति । सखीनां सञ्चाराः सूक्ष्मतरा लतान्तरैर्ग्रथिता भवन्ति । तत्र ललि-
तादयः सख्यो रसिकानन्देन सह वचनप्रतिवचनोत्तरं ददति । कुञ्जान्तर-
श्रेणिषु सखीनां मध्यसञ्चारोऽस्ति । रसिकानन्दः पुरुषोत्तमः स्वयमेव
प्रणिपातं करोति । स्वामिनी मनोरमा निकुञ्जे स्वयमेवातिमानातुरतया
मनोभावापन्ना भवति । स्वभावसंसिद्धाः सख्यो भावापन्ना भवन्ति ।
अतिरसलंपट रसिकानन्दः सर्वासां सखीनां प्रणिपातं करोति । अत्यन्त -
ममाः सख्यस्तत्सुखं निरीक्ष्य सुरतानन्दे मग्ना भवन्ति । चतुर्थ भोगस्थानम् ।
यत्र सुभोज्या सख्या सेवितम् । यत्र खाद्यपेयलेचोप्यरसा अनेकस्वादुयुताः
भवन्ति । अन्नपूर्णया सख्या पाचितानन्नरसानत्युष्णान् सद्यः पाचिता-
निव श्रीराधिकया सह रसिकानन्दः सेवते । अगुरुरसांस्तैलरसान्
पुष्परसानू नानासुगन्धरसान् श्रीराधिकया सह रसिकानन्दः संसेवमानो
भवति । अन्ये ताम्बुलादयो लवङ्गकर्पूरादय एलाजातीफलपूगफलनाळिके-
 
U 29