2026-02-08 07:40:29 by ambuda-bot
This page has not been fully proofread.
२२४
वैष्णव- उपनिषदः
निकुञ्जदेव्याः प्रीणनाय सखीनां रूपाणि विधाय तन्मण्डलं सेवन्ते ।
तस्मिन्मण्डले श्रीरपि सखीरूपं विधाय आकारं गोपयन्ती सेवमाना भवति ।
नित्यलीलायां षडृतवोऽपि सखीनां रूपाणि विधाय सेवमाना भवन्ति । काले
काले तासु निकुञ्जश्रेणिषु सञ्चारिणीनां नानाभोगान् ददति । मेधा नाना-
सखीनां रूपाणि कृत्वा जलसेचनं कुर्वन्ति । कामदेवोऽपि सखीरूपं विधाय
तत्स्थानं सेवमानो भवति । अहोरात्रमपि स्वस्वरूपेण अहनि निशि च
सेवते तन्मण्डलम् । तदिच्छया कचिद्दिवा कंचिन्निशा कचित्प्रातः
कचित्सायं कचिन्मध्याह्नः कचिन्निशीथं नानाभावेन कालेकाले तन्मण्डलं
सेवते । नानामणय ओषधयो वनस्पतयो वृक्षा ये पृथिव्यां सन्ति ते
आधिदैविकीं सृष्टि प्राप्ताः सेवमाना भवन्ति । सिन्धवः स्वरूपेण निधीन्
गृहीत्वा तन्मण्डलं सेवमाना भवन्ति । सुमेरुहेमाद्रिमलयाद्याः पर्वताः
तत्स्थानं सेवमाना भवन्ति । सखीरूपेणात्यन्तमणिज्योत्स्नाभिर्यत्र तत्र अन्ये
च ब्रह्माण्डवर्तिनस्तत्स्थानं दीपयन्तो भवन्ति । पृथिव्यां यत्किञ्चिद्वस्तुमात्रं
तस्याधिदैविकं रूपं तत्रैवास्ति । तस्मात्सर्वं समुत्पन्नं भवति । ब्रह्माण्डे ये
देवास्ते आधिदैविकेन रूपेण तत्स्थानं सेवमाना भवन्ति । तस्मात् सर्वे
समुत्पन्ना ब्रह्माण्डे भवन्ति । वेदाः स्वऋचाभिस्तस्मिंस्थाने तस्या निकुञ्ज -
देव्या यशो गायन्ति । कामदुघाः स्वयूथेनाधिदैविकं रूपं विधाय संसेवन्ते ।
दधिदुग्धतक्रनवनीतघृताद्यान् रसान् गृहीत्वा सेवमाना भवन्ति । तत्र
रासमण्डलमेतैर्गुणैरन्यैर्विविधैः संपूरितं रसिकानन्देन सह श्रीराधिकां सेवमानं
भवति । यस्य रासमण्डलस्य परितः स्थानानि द्वादश संशोभमानानि
भवन्ति । एकं मज्जनस्थानम् । यत्रोष्णोदकपुष्करिण्यो जलैः संपूर्णा भवन्ति
तत्र मज्जनवत्यादयः सख्यो मज्जनार्थ सेवमाना भवन्ति । तत्रान्याः पुष्करिण्यः
शीतोदकपूर्णा भवन्ति । तत्र निकुञ्जानां श्रेणयो रत्नालवालैश्चन्द्रोद्भवैर्जलैः