This page has not been fully proofread.

२२२
 
वैष्णव- उपनिषदः
 
लोकतां प्राप्नोति । सा सृष्टिद्विभेदा भवति । एका संसिद्धा अन्या
साधनसिद्धा भवति । या संसिद्धा सा तस्या निकुञ्जदेव्याः स्वस्वरूपात्
समुत्पाद्या भवति । या साधन सिद्धा सा भजनमार्गे प्रपन्ना । भक्तास्तां
लीलां तद्भावेन प्राप्नुवन्ति । रसलीलायामुपकरणानि रसलीलायामधिकरणे
सख्यश्चातुर्यगुणयुताः ससखीसमूहा यौवनसंपत्तिपूर्णा अनेककलाकोविदाः
रसभावेन पूर्णा भवन्ति । यत्र चन्दनवृक्षाणां श्रेणयो राजमाना भवन्ति ।
मणिविद्रुमलताग्रथिताः सुवर्णसुगन्धसंवलिता वृक्षास्तेषां पुष्पाणि संराजमानानि
भवन्ति । तत्र सखीयूथानि भोज्यं हस्ते गृहीत्वा तिष्ठन्ति । तासु श्रेणिषु
लतान्तरैर्ग्रथितानि द्वाराणि मणिलतायुतानि भवन्ति । मणिमण्डलं यत्र
तेजोमयं मणिमण्डपेन सह भ्राजमानं भवति । लताग्रथिता मणिस्तंभा:
शतशो राजमाना भवन्ति । तस्मिन् मण्टपे परितः सुवर्णभित्तिषु जटिता:
मणयस्तेजोमयाः संराजमाना भवन्ति । तत्राधित्यकासु चन्द्रकान्तमणिना
द्योतिता जलमणयो जलधाराश्च भवन्ति । तेन जलेन पूरिताः सुगन्ध-
मणिपुष्करिण्यो राजमाना भवन्ति । तत्र कमलानि प्रफुल्लानि श्वेतरक्त-
पीतानि मनोहरशोभां ददति । तत्रोपस्थितपरागस्तद्वनं वासयति । तत्र
हंसयुग्मानि कोटिशो देववाण्या निकुञ्जदेव्या यशो गायन्ति । यत्र भ्रमराः
सानुभवा देववाण्या निकुञ्जदेव्या यशो गायन्ति । तत्र पुष्करिणीः
परितो दश दश मन्दिराणि चतुष्कोणेषु सन्ति । रत्नमयकुडयेषु कृत्रिमा:
पक्षिणः सानुभवा इव दृश्यन्ते । तत्र मध्ये मध्ये वृक्षा निकुञ्जतां प्राप्नुवन्ति ।
सुकोमलैः पत्रैस्तेजोमयै राजन्ते । तेषां सुगन्धेन उन्मदा भ्रमरास्तस्याः
श्रीराधिकाया यशो गायन्ति । तत्र केचित् वृक्षाः पुष्पैः शाखाप्रतिशाखा:
नम्रा भवन्ति । तेषु वृक्षेषु हरितपीतशुभ्रश्वेता द्योतिताः पुष्पगुच्छा भवन्ति ।
तेषामधः शृङ्गारवत्यादयः सख्यः पुप्पाणां शय्या रचयन्ति । तत्र लतान्तरैः