This page has not been fully proofread.

सामरहस्योपनिषत्
 
२२१
 
प्रतिक्षणम् । तव मनः कां लीलामापन्नं दृश्यते । स होवाच लक्ष्मीं प्रति ।
महालीलास्थानं क्षराक्षराभ्यामधिकं पुरुषोत्तमाधिष्ठानम् । यत्र सप्तावरणानि
तेजोमयानि । यत्र ब्रह्माण्डान्युत्पद्यन्ते लीयन्ते । कोटिश अण्डकटाहाः
उत्पद्यन्ते लीयन्ते । यस्य प्रतापकरूपा उत्पन्ना ब्रह्मविष्णुरुद्रादयो देवाश्च
दिकपालाः कोटिश उत्पद्यमाना लीयमानाश्च भवन्ति । सा लक्ष्मी:
पुनरुवाचेदम् । अहो क्षराक्षराभ्यामधिकस्य रसिकानन्दस्य स्थानं विस्तरशो
ब्रूहि । स होवाच । आदौ पुरुषोत्तमस्य रसिकानन्दस्य अनादिसंसिद्धा लीलाः
भवन्ति । अनादिरयं पुरुष एक एवास्ति । तदेव रूपं द्विधा विधाय
समाराधनतत्परोऽभूत् । तस्मात् तां राधां रसिकानन्दां वेदविदो वदन्ति ।
तस्मादानन्दमयोऽयं लोकः । यत्रायं पुरुषो रमते तत्रायं रसो व्रजति ।
तस्माल्लोके वेदे व्रजलीला गीयते । तन्मध्ये वनानि द्वादश सन्ति । तेषां
पृथक् नामानि सन्ति । तालवनं बृहद्वनं कुमुदवनं लोहवनं बकुलवनं भाण्डी-
रवनं महावनं गोष्ठं काम्यवनमरिष्टं च सदाशुभं दधिवनं बृन्दावनमिति । सदा
आनन्दमयोऽयं लोको वेदविदो यं वदन्ति । यत्र बृन्दावनं सर्वकामसुखावहं
भवति । यत्र वृक्षा आधिदैविका देवा एव भवन्ति । यत्र साधनवट -
भाण्डtract । यत्र वंशीवटसंकेतवटौ । अन्ये वृक्षाः कदम्बाद्या यत्र राजन्ते ।
यत्रोभयतटबद्धा यमुना रत्नखचिता आस्ते । यस्यां कुमुदवनानि राजन्ते ।
यस्यां हंससारसयूथानि क्रीडापराणि शोभाव्यानि भवन्ति । यस्यास्तटे
कोटिशः कुञ्जाश्च निकुञ्जाश्च राजन्ते । तस्मिन् मण्डले गोवर्धनोऽयं गिरिः ।
रत्नमयोऽयं गिरिः राजमानो भवति । अयं गिरिः श्रीराधिकायाः
रमणस्थानम् । स एवायं गिरिर्वृन्दावने सदा रसिकानन्दस्य क्रीडास्थानं
भवति । तस्मिन् वने पशुपक्षिगणा आधिदैविक सृष्टिं प्राप्ताः सदा
सानुभवा भवन्ति । आधिदैविकी या सृष्टिः सा सृष्टिस्तस्मिन् लोके