This page has not been fully proofread.

सामरहस्योपनिषत्
 
२१९
 
[दा] द्यायुधशास्त्राजन्यमण्डलान्निराचिकीर्ष [ति । ] भूभारमखिलं निचखान ।
स एव भगवान् [शेषः ] युगे तुरीयेऽपि ब्राह्मण्यां जायमा [नो ]
रामानुजो भूत्वा सर्वा उपनिषद उद्दिधीर्ष [ति ।] सर्वाणि धर्मशास्त्राणि
विस्तारयिष्णुः सर्वानपि वैष्णवान् धर्मान् विजृंभयन् सर्वानपि पाषण्डान्नि-
चखान । स एष जग [दाविर्भावतिरोभावहेतुः । स एष सर्वात्मकः । स
एष मुमुक्षुभिर्येयः । स एष मोक्षप्रदः एतत्स्मृ [त्या] सर्वेभ्यः पाप्मे-
[म] भ्यो मुच्यते । तन्नाम संकीर्तयन् विष्णुसायुज्यं गच्छति । तदेतद्दिवाऽ-
घीयानो रात्रिकृतं पापं नाशयति । नक्तमधीयानो दिवसकृतं पापं नाशयति ।
तदेतद्वेदानां रहस्यम् । तदेतदुपनिषदां रहस्यम् । एतदधीयानः सर्वक्रतुफलं
लभते । शान्तिमेति । मनश्शुद्धिमेति । सर्वतीर्थफलं लभते । य एवं वेद ।
देहबन्धाद्विमुच्यते । देहबन्धाद्विमुच्यते । इत्यवोपनिषत् ॥
 
I
 
I
 
इति सङ्कर्षणोपनिषत् समाप्ता
 
1
 
सामरहस्योपनिषत्
 
एकदा ब्रह्मणः पुत्राः सनकादयस्तत्त्वविवित्सया पितामहं पप्रच्छुः
प्रणिपातपुरस्सरम् । अहो पितः निरन्तरं वैकुण्ठे या लीलास्ता ध्यायमानाः
 
निरन्तरं चिदानन्देन सह
चिदानन्दरसं ब्रह्म किं वदन्ति
 
वदन्तितराम् । आपद्यमानोऽस्ति
 
संप्रेक्षामहे । वद यदि रुचिरापद्यते ।
 
व्यापकतया जगद्व्याप्य तिष्ठति यत्तद्ब्रह्म
प्रकृतिं पुरुषः । कस्मात्प्रकृतियोगिता
 
भवति ? जीवाः कीदृग्विधाः कस्मात्समुत्पन्ना भवन्ति ? तेषां लोका अलोकाः
कियत्प्रमाणा: यान् वदन्ति पुराविदः । पितामह उवाच । नारायण-