This page has not been fully proofread.

लाङ्गलोपनिषत्
 
२१३
 
मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुत्या मानसेन सर्वेण
नित्यस्थलं प्राप्नोति । नान्येनेति । नान्येनेति । नान्येनेति । इति वेदवचनं
 
भवति । इति वेदवचनं भवति । इति वेदवचनं भवति ॥
 
इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां चतुर्थ: प्रपाठकः
 
इति राधोपनिषत समाप्ता
 
ماعی
 
लाङ्गूलोपनिषत्
 
ॐ अस्य श्रीअनन्तधोरप्रलयज्वालाग्निरौद्रस्य वीरहनुमत्साध्यसाधना-
घोरमूलमन्त्रस्य ईश्वर ऋषिः । अनुष्टुप् छन्दः । श्रीरामलक्ष्मणौ देवता ।
सौं बीजम् । अञ्जनानुरिति शक्तिः । वायुपुत्र इति कीलकम् । श्रीहनु-
मत्प्रसादसिद्ध्यर्थं भृर्भुवस्स्वर्लोकसमासीनतत्त्वंपदशोधनार्थे जपे विनियोगः ।
भूः नमो भगवते दावानलकालाग्निहनुमते अङ्गुष्ठाभ्यां नमः ।
हृदयाय नमः । ॐ भुवः नमो भगवते चण्डप्रतापहनुमते तर्जनीभ्यां नमः ।
शिरसे स्वाहा । ॐ स्वः नमो भगवते चिन्तामणिहनुमते मध्यमाभ्यां नमः ।
शिखायै वषट् । ॐ महः नमो भगवते पातालगरुडहनुमते अनामिकाभ्यां
नमः । कवचाय हुम् । ॐ जनः नमो भगवते कालाग्निरुद्र हनुमते
कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् । ॐ तपः सत्यं नमो भगवते भद्र-
जातिविकटरुद्रवीरहनुमते करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् ।
पाशुपतेन दिग्बन्धः । अथ ध्यानम् —
 
1
 
वज्राङ्गं पिङ्गनेत्रं कनकमय लसत्कुण्डलाक्रान्तगण्ड
 
दम्भोलिस्तम्भसारप्रहरण विवशीभूतरक्षोऽधिनाथम् ।