2026-02-08 07:40:25 by ambuda-bot
This page has not been fully proofread.
यज्ञोपवीतोपनिषत्
२०७
यस्य परमात्मनः इच्छा लोके प्रजानामायतिः सृष्टयादिकं
" सोऽकामयत बहु स्यां प्रजायेयेति" इत्यादिश्रुतेः । मनसैव जगत्सृष्टि-
संहारौ करोति यः तस्यां पक्षक्षपणे कियान् विस्तर इति लोके .
(मातृकायामेतावदेवोपलब्धम् )
यज्ञोपवीतोपनिषत्
यज्ञोपवीती धृतचक्रधारी यो ब्रह्मविद्ब्रह्मविदां मनीषी हिरण्यमादाय
सुदर्शनं कृत्वा वह्निसंयुक्तं स्त्री शूद्रो बाहुभ्यां धारयेत् । तस्माद्गर्भेण जायते ।
ब्राह्मणस्य शरीरं जायते । श्रीविष्णुं सर्वेश्वरं भजन्ति ।
नासादिकेशपर्यन्तमूर्ध्वपुण्ड्रं तु धारयेत् ।
उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥
भूमिधेनुर्धरणी लोकधारिणी ॥
मृत्तिके न मे पापं त्वयि सवै प्रतिष्ठितम् ॥
तस्माद्विरेखं भवति तं देवकीपुत्रं समाश्रये । अग्निना वै होत्रा चक्रं
पाञ्चजन्यं प्रतप्तं द्वयोर्भुजयोर्धारयेत् । आत्मकृतमाचरेत् । आचार्यस्य संमुखं
प्रपद्येत । तस्माद्वैकुण्ठं न पुनरागमनं सालोक्यसामीप्यसारूप्यसायुज्यं
गच्छति । य एवं वेद । इत्युपनिषत् ॥
इति यज्ञोपवीतोपनिषत् समाप्ता