This page has not been fully proofread.

२०६
 
वैष्णव- उपनिषदः
 
प्राभाकराः । उत्सन्नशाखामूलत्वमापस्तम्बाद्याः । विप्रकीर्णशाखामूलत्वमितरे ।
नित्यानुमेयश्रुतिमूलत्वे अक्षरानुपूर्व्यविशेषविशिष्टस्य नित्यानुमेयश्रुतिमूलत्वम् ।
नाक्षरानुपूर्व्यमूलत्वं यद्युच्यते तर्हि घटपटादीनामपि नित्यानुमेयश्रुतिमूलत्वं
स्यात् । आनुपूर्व्यविशेषविशिष्टस्येति चेदुच्चार्यमाणानुपूर्व्यविशेषणविशिष्टत्व-
मिति सिद्धान्तेऽनुमेयत्वं भज्येतेति । उत्सन्नशाखा मूलमिति चेत्
तेऽपि भिन्नभिन्नपाठाः प्रयोगादनुमीयन्त इति विक्षेपोत्सन्ना वा एकैवेति चेन्न
सर्ववेदसाक्षात्कारवतो व्यासस्य एकस्यापि शिप्यस्याध्यापनसामार्थ्याभावेन
तथा वक्तुमयुक्तम् । भवेदेवेति चेत् सः पदक्रमादिरूपेणाधीयमानत्वात्
तथा वक्तुमयुक्तम् । किन्तु प्रकीर्णशाखामूलत्वं वक्तुं युक्तम् ॥
 
तदुक्तम्-
 
दुर्बोधा वैदिकारशब्दाः प्रकीर्णत्वाच्च ते खिलाः ।
तथैत एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः ॥ इति ॥
प्रसङ्गादेतत्सर्वमुपपादितम् ॥ ६ ॥
 
अनिर्भिण्णं यस्येदमासीदुदकात्मकं यस्योदावोऽयनुथमुच्च-
रुरुगाय स्वाहा ॥ ७ ॥
 
यस्य परमात्मनः यदा प्रळयः तदा लोके अनिर्भिण्णं भेदरहितं
निरन्तरमुदकात्मकमासीत् । यस्य परमात्मनो दग्धुमिच्छा यदा यदा
उदावः उत्कृष्टो दावः प्रळयामिः अयनुथं तथा असमृद्धिः उच्चं
अत्यन्तं उच्चैरुरुगाय श्रुतिस्मृतिषु सर्वत्र अत्यन्तं गायति इति
उरुगः तस्मै ॥ ७ ॥
 
यस्येच्छा लोके वा प्रजायतिर्लोके यस्मै वासि तस्मै
वासीत् यद्वास्संजातं [१] यत्सर्वमीशमाशिषे स्वाहा ॥ ८ ।