2026-02-08 07:40:26 by ambuda-bot
This page has not been fully proofread.
पारमात्मिकोपनिषत्
२०५
अयमपि मन्त्रः पूर्वोक्तपरमात्मपरः सत्त्वं सात्त्विकं सत्त्वात्मकं
तदन्तर्यामिणं रजो रजस आत्मकः तदन्तर्यामिणं तमः तमस आधार:
साकृतं आकृतसहितं निरीश्वरम्,
न तस्य कश्चित् पतिरस्ति लोके
न चेशिता नैव च तस्य लिङ्गम् ।
स कारणं करणाधिपाधिपो
न चास्य कश्चिज्जनिता न चाधिपः ॥ इति ॥
ईश्वराय सर्वेश्वरायेत्यर्थः ।
विग्रहो हविरादानं युगपत्कर्मसन्निधिः ।
प्रीतिः फलप्रदत्वं च देवतानां न विद्यते ॥ इति ॥
विग्रहादिपञ्चकाभावात् चतुर्थ्यन्तः शब्दो देवता शब्दातिरिक्तदेवता-
भावात् मन्त्रार्थवादानां तत्र तात्पर्याभावाच्च ईश्वरायेति कथमुच्यत इति
चेत् उच्यते ; " यद्वै किंच मनुरवदत् तद्भेषजम्" इति श्रुतेः,
मन्वर्थविपरीता तु या स्मृतिः सा न शस्यते ॥
इति संवर्तस्मरणाच्च । प्रमाणत्वेनाभिहितायां मनुस्मृतौ-
प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥
66
इति प्रत्यक्षादीनां त्रयाणां प्रामाण्यप्रतिपादनात् " महा इन्द्रो वज्र-
66
'
66
बाहुः",
वज्रहस्तः पुरन्दरः 'उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे
अवेपयः " इत्यादिदेवतासद्भावप्रतिपादनात् गारुडादिषु मन्त्रेषु मन्त्रवर्णानां
स्वार्थे तात्पर्यदर्शनात् विषहरणादिषु दृष्टत्वाच्च ईश्वरसद्भावोऽस्तीत्यवगन्तव्यः ।
स्मृतीनामपि वेदमूलत्वे त्रेधा निर्वाह: कार्य इति । नित्यानुमेयश्रुतिमूलत्वं