2026-02-08 07:40:25 by ambuda-bot
This page has not been fully proofread.
पारमात्मिकोपनिषत्
२०.३
सृष्टवान् । अयं परमात्मा क इत्याकाङ्क्षायां तस्मै परब्रह्मणे परंज्योतिष इति
पुरुषनारायणपरंब्रह्मपरंतत्त्वपरंज्योतिः परमात्मादिशब्दवाच्यो नारायण एवेति
ज्ञापयितुं परब्रह्मणे परंज्योतिष इत्युक्तम् । परब्रह्मग्रहणात् सर्वमपि गृहीतं भवति ।
किञ्च-
--
तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ।
पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् ॥
न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ।
परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥
इत्यादि । किंच
1 --" यतो वा इमानि भूतानि जायन्ते " इत्यादि ।
जगत्कारणं ब्रह्मेत्युक्तं जगत्कारणत्वात् विष्ण्वादिमूर्तीनां मूलभूतानां षट्कोश-
षडूर्मिलेशाभावात् ।
न भूतसङ्घसंस्थानं देवस्य परमात्मनः ।
न तस्य प्राकृता मूर्तिर्मासमेदोऽस्थिसम्मिता ।
सर्वभूतमयं देहं त्रैलोक्यं सर्वजन्तुषु ॥
66
इत्यप्राकृतत्वात् ऋत५ सत्यं परं ब्रह्म" इत्यादिपरब्रह्मस्वरूप-
प्रतिपादनात् पादादर्धात् त्रिपादात् देवेषु क्रमेणादिमूर्तिश्च मूर्त्या क्रमेण
विष्णुं महाविष्णुं सदाविष्णुं व्यापिनारायण इति चतुर्मुर्तयो भवन्तीति
मरीच्यादिभिः प्रतिपादितत्वात् " तमीश्वराणां परमं महेश्वरम् " इत्युक्तत्वाच्च ।
" ऋतमभिर्वा ऋतमसावादित्यम् ", " अग्निस्सर्वा देवता: ", " असा-
"
66
वादित्यो ब्रह्म " इति समस्तकल्याणगुणाभिप्रायेण ऋतं सत्यमित्युक्तं " पूर्ण-
त्वात् पुरुषः " इति पादनारायणादिषु पूर्णत्वाभावात्पूर्णत्वाद्वयापिनारायणस्य ।
परशब्देन च व्यापी नारायण इतीरितः ।
नारशब्देन जीवानां समूहः प्रोच्यते बुधैः ॥