This page has not been fully proofread.

२००
 
वैष्णव- उपनिषदः
 
संसार भित्तियों देहो लीलाख्यः स हरेर्द्विजाः ।
यन्मनः शीघ्रगं तस्य स रथः कामगो मतः ॥
यो वायुर्वाति सोऽश्वस्तु पुण्डरीकपदाह्वयः ।
इत्येवं ब्रह्मणा चोक्तं तस्माद्देवि श्रिया सह ॥
आत्मानमस्य जगतो निर्लेपमगुणोऽमलम् ।
बिभर्ति कौस्तुभमणिस्वरूपं भगवान् हरिः ॥
श्रीवत्स संस्थानधरमनन्तेन समाश्रितम् ।
प्रधानं बुद्धिरप्यास्ते गदारूपेण माधवे ॥
भूतादिमिन्द्रियादींश्च द्विधा वै परमीश्वरः ।
बिभर्ति शङ्खरूपेण शार्ङ्गरूपेण च स्थितम् ॥
चलस्वरूपमत्यन्तं जपेनान्तरितानिलम् ।
चक्रस्वरूपं च मनो धत्ते विष्णुः करे स्थितम् ॥
पञ्चरत्ने तु या माता वैजयन्ती गदाभृतः ।
सा भूतहेतुसङ्घातभूता माता च वै द्विज ॥
यानीन्द्रियाण्यशेषेण बुद्धिकर्मात्मकानि वै ।
शराणि यान्यशेषेण तानि धत्ते जनार्दनः ॥
बिभर्ति यच्चासिरत्नमच्युतोऽत्यन्तनिर्मलम् ।
विद्यामयं नु तज्ज्ञानमविद्याचर्मसंस्थितम् ॥
भूतानि च हृषीकेशो धत्ते सर्वेन्द्रियाणि च ।
विद्याविद्ये च मैत्रेय सर्वमेतत्समाश्रितम् ॥
अस्त्रभूषणसंस्थानस्वरूपं रूपवर्जितम् ।
बिभर्ति मायारूपोऽसौ श्रेयसे भगवान् हरिः ॥
सविकारं प्रधानं च पुमान् स्वं : चाखिलं जगत् ।
बिभर्ति पुण्डरीकाक्षस्तदेवं परमेश्वरः ॥ इति ॥