2026-02-08 07:40:24 by ambuda-bot
This page has not been fully proofread.
पारमात्मिकोपनिषत्
१९७
जङ्गमाजङ्गमादिकं च परमात्मना सह सोर्भद्रा शोभनानां कारणभूता
बिभर्ति रेरीजयन्तो दीप्तिमन्तो लोकस्थान् रजतं रजोयुक्तं यत्किंचिद्व-
स्तुजातं रजते दीप्तिं कुर्वते तुभ्यम् ॥ १ ॥
वायोरन्तरात्मा वहति समस्तः सपुण्यदेवेति स सूरिमुक्तः
सूरिः सुराणां सुरसोऽप्यसुंदः समूह्य देवा वरदाय पित्रे
स्वाहा ॥ २ ॥
अयं मन्त्रः सुदर्शनपरः । वायोरन्तस्य सुदर्शनस्य वायोर्गतिः
अन्तरात्मा बुद्धिरूपः चलस्वरूपमत्यन्तमन्तरितानलम् ।
चक्रस्वरूपं च मनो धत्ते विष्णुः करे स्थितम् ॥ इति ॥
समस्तः-
विष्णोरपररूपत्वात्सर्व विष्णुवदाचरेत् ॥ इति ॥
सर्वस्वरूपी वहति भगवता मनसि यत्किंचिञ्चिन्तितं तत्सर्वं प्रापयति
स सुदर्शनः सूरिमुक्तः भगवता राक्षसवधादिकं प्रति मुक्तः तद्वधप्रयुक्तदो-
षाभावात् । सपुण्यदेवेति सर्वत्रापि प्रसिद्धः । सुराणां सूरिः पूज्यः सुरसः
हत्त्यादिदोषदुष्टस्य लोके त्याज्यताप्रतिपादनात् तद्दोषाभावात्सुरसः । यद्वा
रुद्रनिवासभूतत्वाद्वा असुंद: सुन्द दाहे [?] इति प्रतिसंहारकः । यद्वा
प्राणदः अनध्यायेष्वधीयानास्ते चक्रेण हताः प्रणष्टा इति चरण-
व्यूहैश्छन्दोगानां शिखाग्रहणमात्रेण प्राणदः समूह्य देवा य एवंरूपं
सुदर्शनं समूह्य सम्यक् धृत्वा देवाय वरदाय रुद्रस्य वरदायेत्यर्थः ।
पित्रे " नारायणादुद्रो जायते " इत्यादिश्रुतिभ्यः रुद्रस्य पित्रे रक्षकाय ॥
ननु जगत्संहारकस्य कथं सुदर्शने वास उपपद्यत इति चेत् उच्यते ।
वेङ्कटगिरिमाहात्म्ये—
कथं सूर्यं परित्यज्य प्रभाऽन्यस्य भविष्यति ।
एवं श्रीकौस्तुभं चक्रं शार्ङ्गं शङ्ख तथैव च ॥