This page has not been fully proofread.

१९६
 
वैष्णव- उपनिषदः
 
जगत्कार्यावसाने तु वियुज्यन्ते च तेजसा ।
वितेजसश्च ते सर्वे पञ्चत्वमुपयान्ति च ॥ इति ॥
श्रीविष्णुपुराणे-
 
सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् ।
 
स संज्ञां याति भगवानेक एव जनार्दनः ॥ इति ॥
जगत्संहारकत्वेन रुद्ररूपक्षयशब्देन स्थानम् ।
निरुक्ते -
 
क्रमादिह गृहादीनां नामानि विविदुर्बुधाः ।
प्रासादमास्पदं सद्म गृहं धाम सनातनम् ॥
विमानं निलयं धिष्ण्यं गेहं च वसतिस्तथा ।
ह निकेतनं चैव सौधं वासः श्रयः क्षयम् ।
आलयो मन्दिरं चैव भवनावासवाचकाः ॥ इति ॥
 
इति श्रीवेङ्कटेशपादाब्जसपर्यासुरतात्मना श्रीमत्कौशिकगोत्रेण गोविन्दाचार्यसूनुना
वेदान्तदेशिक श्रीनिवासयज्वना विरचितपारमात्मिकोपनिषद्वयाख्याने
नवमानुवाकार्थविवरणं समाप्तम्
 
दशमोऽनुवाकः
 
या गौर्वरिष्ठा सह सोर्धरित्री वसुं वसुं वै वसुनीह भद्रा
रेरीजयन्तो रजतं रजते स्वाहा ॥ १ ॥
 
"
 
या गौः वरिष्ठा धरित्री विश्वंभरा वरिष्ठा या गौः भूत्वा वसुं
ब्रीहियवादिकं वसुं द्रव्यादिकं वसुनीह भूलोके तत्तज्जात्यानुसारेण दुग्ध्वा